________________
तिलकमञ्जरी।
अन्तर्दग्धागुरुशुचावाप यस्य जगत्पतेः । नारीणां संह तिश्चारुवेषाकारागृहे रतिम् ॥ ३ ॥ [ नविपुला ] दृष्ट्वा वैरस्य वैरस्यमुज्झितास्रो रिपुव्रजः।
यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥ ४ ॥] [ पथ्या ] येषां सैन्यभराहितोरगपतिश्रान्ति प्रयातां बहिर्जायन्ते स्थगिता हिमांशुमहसः श्वेतातपत्रैर्दिशः । आभान्ति प्रभवो नणामितरवत् तेऽप्यागताः सेवया यस्यानेकजनाकुले निजवपुर्मात्राः सभामण्डपे ॥४८॥
[शार्दूलविक्रीडिते]
टिप्पनकम्-अन्तरित्यादि । यस्य भोजराजस्य । किम्भूतस्य ? जगत्पतेः भुवनरक्षकस्य । नारीणां संहतिः स्त्रीवृन्दम् , आप लेभे । काम् ? रतिं प्रीतिमासक्तिं वा । व? गृहे वेश्मनि । कीदृशी? चारुवेषाकारा बारू-रम्यौ, येषाऽऽकारी-नेपथ्याऽऽकृती यस्याः सा तथोक्ता, चारवेषो वा भाकारो यस्याः सा तथोक्ता । कीदशे गृहे ? अन्तर्दग्धागुरुशुचौ अन्तः-मध्ये, दग्धं यद् अगुरु-कुष्ठागुरुकाष्ठम् , तेन शुचि-पवित्रम् , सुगन्धीत्यर्थः । भन्यत्र यस्य जगत्पतेररीणां संहतिः, नावाप न प्राप्तवती, काम् ? रतिं सुखम् , क्क ? कारागृहे गुप्ती, कीदृशी? चारुवेषा रम्यनेपथ्या, पुनः किम्भूता? दग्धा संतप्ता, क? अन्तः मध्ये, चित्त इत्यर्थः, केन ? गुरुशुचा बृहरछोकेन ॥ ३ ॥
टिप्पनकम् --- [ दृष्ट्रेत्यादि ] । रिपुवजः अरिसमूहः, व्यधात् कृतवान् , किम् ? कुशलं कल्याणम् , कस्य ? कुलस्य वंशस्य, किम्भूतस्य ? विश्वस्य सर्वस्य, किं कृत्वा ? विश्वस्य विश्वासं कृत्वा, कस्मिन् ? यस्मिन् भोजदेवे, कथम्भूतो रिपुव्रजः? उज्झितास्त्रः त्यक्तायुधः, किं कृत्वा ? दृष्टा अवलोक्य, किम् ? वैरस्यं विरसताम् , कस्य ? वैरस्य विरोधस्य ॥ ४ ॥
टिप्पनकम्-येषामित्यादि । सैन्यभराहितोरगपतिश्रान्ति सेनासम्भारकृतनागराजखेदं यथा भवति तथा, प्रयातां गच्छताम् , क? बहिः बहिःप्रदेशम् , मात्रा-परिग्रहः परिवारो वा ॥४८॥
परागाभिधा विवृतिः--खपराजितैरवनिपतिभिः श्रीभोजराजस्य वरिवस्यामुपवर्णयति-येषामिति । 'सैन्यभरारहितोरगपतिश्रान्ति बहिः प्रयातां येषां श्वेतातपत्रैः स्थगिताः दिशः हिमांशुमहसः जायन्ते, तेऽपि सेवया निजवपुर्मात्राः आगताः अनेकजनाकुले यस्य सभामण्डपे नृणां प्रभवोऽपि इतरवत् आभान्ति' इत्यन्वयः । सैन्यभराहितोरगपतिश्रान्ति सैन्यानाश्रीमद्भोजादिनृपसैनिकानाम् , भरेण-भारेण, आहिता-जानता, उरगपतेः-भुजगपतेः, भुवं विभ्रतः शेषस्येति यावत् , श्रान्तिः धमो यस्मिंस्तद् यथा स्यात् तथा, बहिः स्वराजधान्या अन्यत्र, प्रयातां प्रयाणमाचरताम् , येषां श्रीमद्भोजराजारिनृपाणाम् , श्वेतातपत्रैः मणिमयदण्डोद्दीप्यमानधवलच्छत्रैः, स्थगिता आवृताः, दिशः सकलदिशः, हिमांशुमहसः हिमांशोःचन्द्रस्य, महः-तेजो यासु ता इव चन्द्रिकोदञ्चिता इवेति लुप्तोत्प्रेक्षा, जायन्ते सम्पद्यन्ते, ते तथाविधा अपि, श्रीभोजराजेन जिताः सन्तः, सेवया श्रीभोजराजसेवार्थम् , सेवायाः फलविधयेव हेतुत्वेन हेतौ तृतीयोपपत्तिः, निजवपुर्मात्राः निजं वपुःशरीरमेव, मात्रा-उपकरणं येषां ते, सेवकभावेन संन्यस्ताखिलराजोपकरणाः, तेन विजित्ल गृहीताखिलराजोपकरणा वेत्यर्थः, आगताः सेवकरूपेणोपस्थिताः सन्तः, अनेकजनाकुले सचिवादिजनसन्दोहसङ्कले, यस्य श्रीभोजराजस्य, सभामण्डपे सभानिकेतने, नृणां लोकानाम् , प्रभवोऽपि अधिपतयोऽपि, विशिष्ट व्यक्तयोऽपीत्यर्थः, इतरवत् सामान्यव्यक्तिवत् , आभान्ति प्रतिभान्ति । ___अत्रोक्तदिशोत्प्रेक्षा, इवशब्दाध्याहारे तु अतिशयोक्तिरलङ्कारः । “उरगः पन्नगो भोगी" इति, "छत्रं त्वातपत्रम्" इति, "मण्डपोऽस्त्री जनाश्रयः" इति चामरः ॥ ४८ ॥