________________
टिप्पनक- परागविवृतिसंवलिता
श्वानामृतवर्षिणा श्रवणयोरायोजनं भ्राम्यता, भिन्दाना युगपद् विभिन्नविषयं मोहं हृदि प्राणिनाम् । आधे धर्मकथाविधौ जिनपतेराद्यस्य वाणी नृणां वृन्दैरुद्यदपूर्वविस्मयर सैरा कर्णिता पातु वः ॥ ४ ॥ [ शार्दूलविक्रीडितम् ]
१२
टिप्पनकम् - मोहमत्र ज्ञानं संशयविपर्ययरूपम् । विभिन्नविषयम् अनेकार्थसम्बन्धिनम् । क ? हृदि मनसेि, मनोगतमित्यर्थः । केषाम् ? प्राणिनाम् देवनरतिरश्चाम् । भिन्दाना विदारयन्ती । कथम् ? युगपद् एककालम् । का ? वाणी भारती | क ? आधे धर्मकथाविधौ प्रथमे धर्मकथने समवसरणस्थितस्योत्पन्नकेवलस्य ॥ ४ ॥
एवं सदेवदेवेशश्च निष्क्रमणोत्सवः । यं पश्यद्भिर्निजदृशां नैर्निमेष्यं कृतार्थितम् ॥ ३२ ॥ गत्वा सिद्धार्थकोद्याने मुमोच परमेश्वरः । कुसुमाभरणादीनि कषायानिव सर्वतः ॥ ३३ ॥ चतुर्भिर्मुष्टिभिः केशानुद्दधार जगद्गुरुः । जिघृक्षुः पञ्चमी मुष्टिं वासवेनेति याचितः ॥ ३४ ॥ देवांसयोः स्वर्णरुचोर्वाचातीतातिशोभिता । केशव सावास्तामिति तां स्वाम्यधारयत् ॥ ३५ ॥ प्रतीच्छतश्च सौधर्माधिपतेः सिचयाञ्चले । स्वामिकेशा दधुर्दत्तवर्णान्तरगुणश्रियम् ॥ ३६ ॥ क्षीरोदधौ सुधर्मेशः केशान् क्षिप्त्वाऽभ्युपेत्य च । रङ्गाचार्य इवारक्षत् तुमुलं मुष्टिसंज्ञया ॥ ३७ ॥ सर्व सावधं प्रत्याख्यामीति चारित्रमुच्चकैः । मोक्षाध्वनो रथमिवाध्यारुरोह जगत्पतिः ॥ ३८ ॥ सर्वतः सर्वजन्तूनां मनोद्रव्याणि दर्शयत् । जज्ञे ज्ञानं प्रभोस्तुर्य मनःपर्ययसंज्ञकम् ॥ ३९ ॥ राज्ञां सहस्राश्चत्वारोऽनुयान्तस्तं निजं प्रभुम् । व्रतमाददिरे भक्त्या कुलीनानां क्रमो ह्यसौ ॥ ४० ॥ ततः सर्वेष्वपीन्द्रेषु गतेषु खं स्वमालयम् । व्यहरत् तैर्वृतः स्वामी यूथनाथ इव द्वीपैः ॥ ४१ ॥ अथ कच्छ-महाकच्छपुत्राषाज्ञागतौ क्वचित् । ईयतुर्न मि-विनमी स्वामिनं प्रतिमास्थितम् ॥ ४६ ॥ प्रणम्य तौ विज्ञपयांबभूवतुरिति प्रभुम् । आवयोर्नापर: स्वामी स्वामिन्! राज्यप्रदो भव ॥ ४७ ॥ न किञ्चिदूचे भगवांस्तदा तौ सेवकावपि । निर्ममा न हि लिप्यन्ते कस्याप्यैहिकचिन्तया ॥ ४८ ॥ तो कृष्टासी सिषेवा खामिनं पारिपार्श्विको । अहर्निशं मेहगिरिं सूर्याचन्द्रमसाविव ॥ ४९ ॥ इति ॥ अत्र 'इव' शब्दवाच्या रूपद्वयादानरूपक्रियोत्प्रेक्षालङ्कारः, 'नमि- विनमि' पदयोः 'उत्सङ्ग-दृश्याङ्ग' पदयोरछेकानुप्रासवे. त्यनयोः संसृष्टिः ॥
"बाहुमूले उभे कक्षौ पार्श्वमस्त्री सयोरधः" इत्यमरः ॥
इदं मालिनी नाम वृत्तम्, तलक्षणं तु "नौ म्यौ यो मालिनी" [ छन्दोऽनुशासनम् ], न-न-म-य-याः, जैरिति वर्तते - जैः - अष्टभिश्चेद् यतिः, इति तदर्थः ॥ ३ ॥
परागाभिधा विवृतिः - ध्वानेनेति - 'श्रवणयोर मृतवर्षिणा, आयोजनं भ्राम्यता, ध्वानेन, प्राणिनां हृदि विभिन्नविषयं मोहं युगपद् भिन्दाना, उद्यदपूर्वविस्मयरसैः, नृणां वृन्दैः, आकर्णिता, आद्ये धर्मकथाविधौ, आद्यस्य जिनपतेः, वाणी वः पातु' इत्यन्वयः । आद्यस्य तीर्थप्रवर्तकेषु प्रथमस्य । जिनपतेः जिनेन्द्रस्य, भगवतो वृषभदेवस्येत्यर्थः । वाणी भारती । वः युष्मान् । पातु धर्मसम्पदुत्सेधनेन तापत्रयाद् रक्षतु । कदातनी सा वाणी ? इत्याह- आद्ये सर्वप्रथमे, धर्मकथाविधौ धर्मोपदेशनकार्ये, केवलज्ञानावाप्ती अस्मिंश्वावसर्पिणीकाले प्रथमतो दीयमानायां धर्मदेशनायामिति यावत्, तत्कालिकीति सप्तम्यर्थः । सा कथम्भूता ? श्रवणयोः कर्णयोः, अमृतवर्षिणा पीयूषवर्षणशीलेन, न तु कादाचित्कामृतवर्षण, आयोजनं योजनं कोशचतुष्टयमभिव्याप्य, अथवा श्रवणयोः आयोजनं सम्बन्धपर्यन्तम्, भ्राम्यता वीचितरङ्गम्यायेन प्रसरता, ध्वानेन प्रतिशब्देन, अथवा ध्वनीनां युगपदखिलदिग्गात्मनां समूहो ध्वानं तेन, समवसरणावसरे भगवदास्यनिष्कासिनस्तारस्यैकस्यापि शब्दस्य युगपदखिलदिग्गामि प्रतिशब्दपरम्पराप्रसवित्वात् प्राणिनां सुर-नर-तिरश्चाम्, न तु कस्यचिदेव, हृदि भिन्नविषयं देहेन्द्रिय- दाराऽपत्यादिविषयकम् मोहम् अहङ्कार-ममकाररूपमज्ञानम्, युगपद् समकालमेव, भिन्दाना