________________
तिलकमञ्जरी। दिशतु विरतिलाभानन्तरं पार्श्वसर्पन्नमि-विनमिकृपाणोत्सङ्गदृश्यानलक्ष्मीः । त्रिजगदपगतापत् कर्तुमात्तान्यरूपद्वय इव भगवान् वः सम्पदं नाभिसूनुः ॥ ३॥ [मालिनी]
टिप्पनकम्-तथापरस्य श्लोकद्वयस्य कियत्पदन्याख्या क्रियते । विरतिलाभः सर्वसावद्ययोगनिवृत्तिप्राप्तिः । पार्श्वसर्पनमि-विन मिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः पार्श्वयोरुभयपक्षयोः सर्पन्तौ चलन्तौ नमि-विनम्योराजपुत्रयोः कृपाणौ खड्गौ तयोरुत्सङ्गे दृश्ये दर्शनयोग्ये अङ्गालक्ष्म्यौ मूर्तिलक्षणे यस्य स तथोक्तः, अत्र च बहुव्रीही समासे नदीलक्षणः को न भवति, सत्रैकवचनान्तस्यैव लक्ष्मीशब्दस्य कविधानात् । एतेन भगवतो रूपनयं जातमिति दर्शितम् , एतदुस्प्रेक्षते कविः-आत्तान्यरूपद्वय इव गृहीतापरमूर्तिद्विवय इव । किं कर्तुम् ? त्रिजगत् निभुषनम्, भपगतापत् निवृत्तविपत्तिकं कर्तुम् । तच शरीरत्रयेण सुखेनैवाऽपायरहितं क्रियते रक्षणात् । [खपदं ] स्वं पदमात्मीयं स्थानम्, मुक्तिमित्यर्थः, सम्पदं स्वर्गापवर्गसमृद्धिम् ॥ ३॥
परागाभिधा विवृतिः-तीर्थप्रवर्तकेषु प्राथम्याद् अतिप्रीतिविषयत्वेन पुनरपि भगवन्तमादिनाथमेव पद्यद्वयेन नाथति-दिशस्विति । 'विरतिलाभानन्तर पार्श्वसर्पञ्चमि-विनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः, त्रिजगत् अपगतापत् कर्तुम् , आत्तान्यरूपद्वय इव भगवान् नाभिसूनुः, वः सम्पदं दिशतु' इत्यन्वयः । विरतिलाभानन्तरं विरतिः सम्यग्ज्ञानपूर्विका सर्वसावनिवृत्तिः, तस्या लाभः प्राप्तिः, तदनन्तरम् , प्रव्रज्याग्रहणात् पश्चादित्यर्थः । नमि-विनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः प्रवासात् प्रत्यावृत्य, पार्श्वयोः-भगवतः पक्षयोः, सर्पतोः-सेवार्थ भ्रमतोः, नमि-विनम्योः-निजपौत्रयोः, कृपाणौ खगौ, तयोरुत्सङ्गे मध्ये, दृश्ये प्रतिबिम्बात्मना दर्शनीये अङ्गलक्ष्म्यौ शरीरावयव-तत्समवेतश्रियो यस्य सः । अत एव आत्तान्यरूपद्वय इव आत्तं गृहीतम् , अन्यदपि रूपद्वयं येन स इवेत्युत्प्रेक्षा । किं कर्तुम् ? त्रिजगत् त्रयाणां जगतां समाहारम् , न त्वेकं द्विकं वा जगत् , अपगताऽऽपत् अपहारसम्भावनया खयमपसृतापत् , कर्तुं सम्पादयितुम् । एकदैकेन शरीरेणैकस्माज्जगतोऽपसारिताप्यापद् अन्यजगद् आश्रित्य स्थातुं शक्नोति, शरीरत्रयेण तु युगपदेव जगत्रयाद् अपसारयितुं शक्यतेसपसारणावश्यम्भावेन स्वयमेवापसृतेति 'अपगतापत्' इत्यनेन ध्वनितम् । अस्माकमनेकैरपि शरीरैरसाध्य एकैकजगदापदपगमः कथमेकैकेनापि तस्य शरीरेण साध्य इत्याह-भगवान् भगो माहात्म्यमैश्वर्य चास्त्यस्मिन्नसौ । नाभिसूनुः श्रीनाभिनृपनन्दनः । सम्पदं लौकिकालौकिकसमृद्धिम् , सम्यग् पदं वस्तु ज्ञानादिरूपम् , स्थानं मोक्षरूपं वा, 'खम्यदम्' इति पाठे खम् आत्मीयं पदं स्थानं मोक्षरूपम् । वः युष्मभ्यम् । दिशतु ददातु ।
अत्रेमे योगशास्त्रप्रथमप्रकाशवृत्तिगताः श्लोकाः-- "जलेऽथावधिना खामी स्वःसुखान्युत्तरोत्तरम् । अनुत्तरस्वर्गसुखं भुक्तपूर्व खयं च यत् ॥ १९ ॥ भूयोऽप्यचिन्तयदिदं विगलन्मोहबन्धनः । धिगेष विषयाक्रान्तो वेत्ति नात्महितं जनः ॥२०॥ अहो संसारकल्पेऽस्मिन् जीवाः कुर्वन्ति कर्मभिः । अरघट्टघटीन्यायेनैहिरेयाहिरी क्रियाम् ॥२१॥ इत्यासीन्मनसा यावद् विभुर्भवपरामुखः । तावल्लोकान्तिका देवा एयुः सारखतादयः ॥ २२॥ बद्धैरजलिभिमूनिं कृत्तान्यमुकुटा इव । प्रणम्य ते व्यज्ञपयन् खामिस्तीर्थ प्रवर्तय ॥ २३ ॥ गतेषु तेषु भगवानुद्यानानन्दनाभिधातू । व्यावृत्य गत्वा नगरीमाजुहावावनीपतीन् ॥ २४ ॥ राज्येऽभ्यषिश्चद् भरतं ज्येष्ठ पुत्रं ततो विभुः । बाहुबल्यादिपुत्राणां विभज्य विषयान् ददौ ॥ २५ ॥ सांवत्सरिकदानेन ततोऽतपीत् तथा भुवम् । देहीति दीनवाक्यश्च कश्चिदासीद् यथा नहि ॥ २६ ॥ अथासनप्रकम्पेन सर्वेऽप्यभ्येत्य वासवाः । अभिषेकं प्रभोश्चक्रुर्गिरेरिव पयोमुचः ॥२७॥ माल्याङ्गरागैर्देवेशन्यस्तैर्वासितविष्टपैः । खयशोभिरिवाशोभि परितः परमेश्वरः ॥ २८ ॥ विचित्रैरर्चितो वस्त्रै रत्नलौश्व भूषणैः । विभुर्बभासे सन्ध्याम्रधिष्णैरिव मरुत्पथः ॥ २९ ॥ दिवि दुन्दुभिनादं च कारयामास वासवः । जगतो दददानन्दमसम्मान्तमिवात्मनि ॥ ३० ॥ सुरासुरनरोद्वात्यामारोहच्छिनिकां त्रिभुः । ऊर्ध्वलोकगतेर्माग जगतो दर्शयन्निव ॥३१॥