SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३४६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाये मूलकत्वात् इक्ष्वाकुकुलश्रेष्ठः कृष्णः अवलश्रिया अवला एव श्रीस्तया आश्रितः अवलम्बित इत्यहं शंके मन्ये ।। भृपाः षोडश साहस्रा वासुदेवाय भक्तितः । रत्नानि ढोकयामासुढे द्वे च वरकन्यके ।। ताभ्यः षोडश साहस्राः कन्याः कृष्ण उपायत । अष्टौ सहस्राणि वलोऽन्ये कुमाराश्च तावती इति कृष्णचरित्रे ॥१९॥ चके प्रभाविनि दशाननराजराजि, भाति स्मयागजदशाननराजराजः ॥ चक्रे प्रभाविनि दशाननराजराजि भातिस्मयागजदशा न नराजराजि ॥ ६०॥ अन्धयः-दशाननराजराजि प्रभाविनि चक्रे स्मयागजदशानमराजराजिः भाति प्रभाविनि दशाननराजराजि चक्रे नर भजराजि यागजदशा न भातिस्म ॥३०॥ व्याख्या-आसमन्तादन्यते प्रकाश्यते इति आननः प्रकाशः दशसु दिक्षु आननः प्रकाशो यस्य स दशाननः राजते उद्योतते इति राजा तत्र राजते शोभते इति राजराट् दशाननश्चासौ राजराट् चेति दशाननराजराट् तस्मिन् , प्रभाविनि प्रभावशालिनि चक्रे भरतस्य राज्ञः चक्रास्त्रे प्रकटिते सतीति शेषः सयागजदशाननराजराजिः समयः चित्रो. स्कर्ष एव अगः पर्वतः तस्माजायते इति सयागजः तेन दशसु दिक्षु अनिति प्रकाशते इति स्मयागजदशाननः राजसु राजते इति राजराजिः स्मयागजदशाननश्चासौ राजराजिश्चेति सयागजदशाननराजराजिः चित्तोद्रेकगिरिप्रभूतप्रकाशमाननृपमण्डलीश्रेष्ठः भरतः श्रीशान्तिनाथ: श्रीनेमिनाथश्च भाति द्योतते प्रभाविनि प्रभावशालिनि दशाननराजराजि प्रकाशमाननृपश्रेष्ठनृपे चक्रे मण्डले समूहे हेनर अजराजि अजेषु छागेषु राजने इति अजराट् तस्मिन् यागजदशा यागे बलिप
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy