SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ १५६ महोपाध्यायभीमेघविजयगणिविरचिते सप्तसम्मानमहाकाव्ये जरायुक्ता भवन्तीति भावः जिनं विना श्रीनेमिनाथं विना सुमित्रा. संभवे सुमित्रसमागमे व्यग्रे दुःखमापन्ने बले सैन्ये व्यापत् जरा सर्वत्र प्रासरदिति भावः॥ ४९ ॥ कृते नागवराहाने वामेयार्चा समागता । तया विशल्यया सेना जिनोक्त्या साऽभवत् पटुः॥५०॥ अन्वयः-नागवराहाने कृते दामेयाची समागता तया विशव्यया जिनोक्स्या सा सेना पटुः अभवत् ॥ ५० ॥ __ व्याख्या-न गच्छतीति नागः कामः सर्वदा शरीरस्थितत्वाद स चासौ वरश्चेति नागवरः तस्य आह्वाने आकारिते सति कामपरतंत्रे सति वामाया इयम् वामेया अर्चा पूजा आराधना तदनुसरणा समागता समुपस्थिता परंतु जिनोक्त्या जिनशब्दोचारणेन तथैव विशल्यया विशल्यकरणया दुःखनिवारिकया सा सेना जनप्रवृत्तिः पटुः साधीयसी अभवत् अजायत जिनस्य कामजितत्वात्तन्नामोचारणमात्रेण कामो व्यपलायत ॥ रामपक्षसाधारणमेतत् । कृष्णपक्षे-नागवराहाने नागवरस्य धरणेन्द्रस्य आह्वाने आकरणे कृते सति वामेयस्य पाश्चैजिनेन्द्रस्य या अर्चा पूजा सा समागता समुपस्थिता जिनोक्त्या जिनस्य श्रीनेमिनाथस्य या उक्तिः सा जिनोतिः तया जिनेन्द्रोपदेशभूतया तया श्रीपार्श्वजिनेन्द्रपूजया विशल्यया विशल्यकरणया जराविद्राविकया सा सेना पटुः पदवी कार्यक्षमा अभवत् अजायत ॥ ५० ॥ राजद्राजी समाजानां सा-धो-रणविनिग्रहात् । कुम्भकर्णे रक्तलेपात् शुशुभे या-स-भागजा ॥५१॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy