SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-६ ३३५ कृष्णपक्षे-पुण्यजनाधीशे पुण्यजनम् अधीष्टे शास्तीति पुण्यजनाधीशस्तस्मिन् यद्वा अपुण्यजनाधीशे अपुण्यजनान् पापिष्ठान अधीष्टे तसिन् कलुषितजनाधीशे बृहद्रथभुवि बृहद्रथराजपुत्रे बार्हद्रथे जरासंधे दृष्टे संग्रामाङ्गणगोचरे सति सर्वे कृष्णपक्षीयाः नराः मनुष्याः अनराः देवयक्षगन्धर्वराक्षसादयः अचलाचलदशां स्थैर्यताम् अकिश्चित्करो ऽयमस्माकमिति निर्भीकताम् दधुः धारयन्तिस्म ॥ १८ ॥ तदा मुक्ते जरायोगे शक्तिशल्यानुभाविनि । सुमित्रासंभवे व्यग्रे बले व्यापद विना जिनम् ॥४९|| अन्वयः--तदा शक्तिशल्यानुभाविनि जरायोगे मुक्ते सुमित्रासंभवे बले व्यग्रे जिनं विना व्यापत् ॥ ४९ ॥ व्याख्या-तदा केवलज्ञानानन्तरं शक्तिशल्यानुभाविनि शक्तिरनविशेषः शल्यो बाणस्तयोर्द्वन्द्वः शक्तिशल्यम् तस्य अनुभावः प्रभावः पापक्षयकारत्वाद्यस्मिन् तसिन् योगे तपोविशेष मुक्ते परित्यक्ते सति अजरा न जीर्यति जन्मकोटिशतैरपीति जरा कर्मग्रन्थिः जिनं विना जिनेन्द्रप्रभु विना सुमित्रासंभवे सुमिद्यति नियति जनोऽस्यामिति पृथ्वी तस्या संभवे पृथ्वीजाते व्यग्रे दु:खिनि चले संघे व्यापत् प्रासरत् ।। ४९ ॥ रामपक्षे-जीर्यते शरीरमनया इति जरा काचित् शक्तिः तस्या योगे प्रयोगे शक्तिशल्यानुभाविनि शक्तिशल्योभयप्रभावशालिनि तदा रावणयुद्धसमये मुक्ते लक्ष्मणाय विक्षिप्ते सति सुमित्रासंभवे लक्ष्मणे व्यग्रे दुःखमापन्ने बले सैन्ये जिनम् जयतीति जिनस्तम् रामम् विना व्यापत् प्रासरन् समस्तबलं व्यग्रमभवत् ।। कृष्णपक्षे-तदा जरासंधयुद्धे शक्तिशल्यानुभाविनि शक्तिवाणप्रभावशालिनि जरायोगे जरास्त्रप्रयोगे मुक्ते सति यदस्त्रप्रभावात्सर्वे.
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy