SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६० महोपाध्यायश्रीमेघविजयगणिविरचिले समसन्धानमहाकावे सह कतिचित्समाः कतिवर्षाणि विहारम् क्रीडाम् अचीकरत अरीरचत्॥ रामपक्षे-सौभद्रयो लक्ष्मणः, अन्यत्पूर्ववद्योज्यम् ॥ ३३॥ कृतगुरुतपा भूरीशानः प्रतिस्थलसत्कृतो, लघु वसुमती धात्री पात्रीचकार महासुदः। रजतसहितैर्माणैः स्वं चातुषत् तुषवर्जितै र्वनमपि घनं पुष्पासारैः ससौरभमादधे ॥३४॥ अन्वय:-कृतगुरुतपा ईशानः भूरि प्रतिस्थलसत्कृतः महासुदः लघु वसु. मती धात्री पात्रीचकार रजतसहितैषिः तुषवर्जितैः स्वम् अतुषत् धनम् वनमपि पुष्पासारैः ससौरभमादधे || ३४ ॥ -: व्याख्या :वर्द्धमानपक्षे-कृतगुरुतपाः कृतं गुरु महत्तपोऽभिग्रहरूपो नियमो येन स कृतगुरुतपाः ईशानैर्देवनूपैर्वा भूरि बहुशः प्रतिस्थलसत्कृतः सर्वत्र प्राप्तसत्कारः महासुदः असुम् जीवनं ददातीति असुदः जीवरक्षकः महांश्चासौ असुदश्चेति महासुदः निरतिशयजीवरक्षापरः लघु क्षिप्रम् वसुमती सुसमृद्धां धात्री पृथ्वीं पात्रीचकार विहारस्येति शेषः तुषवजितैनिर्दष्टेः द्रव्यादिचतुर्विधशुद्धै रजतसहितैः रज्यते निस्तुषीक्रियतेऽ. नेनेति रजतः मूर्पः तेन सहितैः मूर्पस्थैरित्यर्थः अथवा अत्यन्तस्वच्छै: मार्माषाः स्वम् स्वयम् अतुषयत् यथाभिग्रहलाभेन पूर्णव्रतत्वानुतोष घनं निविडम् वनम् आलयम् यद्वा बनरमण्यम् पुष्पासारैः पुष्पवृष्टिभिः ससौरभम् सुगन्धिमत् ससौगन्धिकम् आदधे चक्रे प्रभोस्तथाविधभिक्षादानेन परितुष्टो देवस्तत्रपुष्पवृष्टिम् विदधौ ॥ अन्यतीर्थकृतापक्षे--रजतसहितः अतिस्वच्छै मायः मपति क्षुधानिवारयती माषः "मषेः संज्ञागं घ" तैः क्षुन्निवारकैः तुषकर्जितैर्निर्मलैः निदोषैरन्यत् पूर्ववदवसेयम् ।
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy