SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-५ २५९ मनयेत्यर्थः स्थितम् समागतम् प्रभु जिनेन्द्रमनुचरणन सेवमानःभृशमतिशयम् मुखम् प्रीतिम् चकवान चकार अविक्रियया विकारराहित्येन निर्मायिकतयेति भावः अन्वयात् प्रभुमन्वसरत् तेन सह कति. चनसमाः कतिवर्षाणि यावत् स्वामी प्रभुः विहारम् विचरणम् अची. करत व्यदधत् ॥ ३३ ॥ श्रीमहावीरजिनेन्द्रपक्षे-हरिचरसुरास्थाने चरत्यनेनेति चरश्च रणा हरेः विष्णोश्वरः हरिचरः सुनोतीति सुरा सुधातोरोणादिकोरक्, नदी हरिचरस्य सुरा हरिचरसुरा गंगानदी तस्या विष्णोः पादप्रसूतस्वात् तस्याः स्थाने गंगानदीस्थाने स प्रसिद्धः शम्बलकम्बलः नागः नागकुमारः नाविस्थित्या प्रभुम् महावीरस्वामिनम् भृशमतिशयम् सुखं चकवान पूर्वभवसिंहजीवः साम्प्रतं सुदष्टनामा नागकुमारः पूर्ववैरमनुस्मरन् भगवन्तं व्यराध्यत तस्मादुपसर्गात् शम्बलकम्बलनामा नागः प्रभुम्रपाकृतेति कथासन्दर्भः उपवने स्थितम् बाह्योद्यानस्थं प्रभुम् सौभद्रेयः सुभद्रातनयो गोशालः अविक्रियया विकारराहित्येन अन्व. . यात् अनुगमोऽभवत् तेन सौभद्रेयेन गोशालेन सहेति शेषः स्वामी महावीरस्वामी कतिचनसमाः कतिवर्षपर्यन्तम् विचरणम् अचीकरत् व्यदधत् ।। ३३॥ कृष्णपक्षे-हरिचरसुरास्थाने चरत्यस्मिन्निति चरः हरे कृष्णस्य चरः हरिचरः कृष्णनिवासस्थानम् तदेव सुरास्थानम् देवास्थानम् तीर्थभूतमित्यर्थः स प्रसिद्धः तस्मिन् शम्बलकम्बलः कल्याणसुखवान् नागः श्रेष्ठः सौभद्रेयः सुभद्रातनयः अभिमन्युः प्रभु कृष्णम् अनुगच्छन् नावि स्थित्या नौकायां स्थित्या समुद्र जलक्रीडया भृशमतिशयं मुखं प्रीतिम् चकवान् अकुत उपवने रैवतकाद्रौ स्थितम् कृष्णम् अविक्रियया आनुकूल्येन अन्वयात अन्वसरत् स्वामी कृष्णः तेन सौभद्रे येण
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy