SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ भावार्षीविजयातसूरिप्रणीता सरणी टीका. सर्ग-५ २५१ अरिपरिणतिर्येषां पूर्वा नवा सहजातिगा, बलवति पुनः कर्णेऽभ्यणे समीयुषि वाग्भरे । प्रगुणितमहामन्त्रैस्तन्त्रैर्ययुः प्रतिमाधवं, मलिनहृदया गान्धारेया निधाय कथाश्रुताः॥२८॥ अन्वयः--येषाम् भरिपरिणतिः पूर्वा नवा सहजातिगा बलयति वाग्भरे कणे अभ्यणे समीयुषि प्रगुणितमहामंझैः तंत्रः कथाश्रुता निधाय मलिनदया गान्धारेयाः प्रतिमाषवम् ययुः ॥ २८ ॥ व्याख्या-येषां जिनेन्द्रप्रभूणां अरिपरिणति शत्रुसंमुखगमनम् पूर्वा एव “दीक्षाग्रहणात् पूर्वं यथा शत्रुधु परिणमतिस तथेदानीमपि कामक्रोधादिशत्रौ परिणमत इति भाव:" न वा नैव सहजातिगा खाभाविकीती मिन्ना किन्तु स्वाभाविकी बलवति दुःप्रधर्षे कामादौ वाग्मरे शब्दग्राहके कर्णे श्रोत्रेऽभ्यणे सनिधौ समेयुषि समागते सति कामस्थानत्वात् दृष्टिगोचराभावेन पिकादिमधुर शब्दद्वारा श्रावणप्रत्यक्षे सति प्रगुणितमहामंत्रैः प्रगुणिताः प्रयोजिता ये महामंत्राः आरमसंयमास्तैः तंत्रैः स्थैर्यैः मलिनहृदयाः मोघप्रयत्नाः गांधारेया गंधमच्छतीति गंधारः तेषां समूहः तेभ्यो हिता वा गंधप्रयोजकाः कामादयः कथाश्रुता निधाय तदीयतपोमहिमवणेनं यथा इन्द्रादिभ्यः श्रुतन्तथानुभूतमिति श्रुताः आकर्णिताः कथाः प्रभावातिशयद्योतकाः निधाय कर्णे इति शेषः माधवम्प्रति वसन्तम्प्रति ययुः वसन्तसभिषिं गत्वा ययुनिववृतुः ॥ २८॥ कृष्णपक्षे-येषां दुर्योधनादीनां अरिपरणतिः शत्रुभावता पूर्वा पुरातनी पूर्वत एव युधिष्ठिरादिनिमिचीकृत्य कोऽपि शत्रुबुद्धिः चिरंतनी नवा नैव सहजातिगा खाभाविकी मिना किन्तु सहजैव पुन: किन्तु नारभरे सत्यवादिनिमलचति सामर्थ्यशालिनि कर्णे कोमिधाने
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy