________________
२५. महोपाध्यामश्री मेषविजयगणिविरचिते सक्षसम्ममहाकावे यकातिशयानुरामतः सुखेन आगात् अन्वसरत् तदनु तत्पश्चात् चलन् तमिन् प्रवर्चमानो जनः श्रद्धापूर्णः भक्तिपूर्णः अभवदिति शेषः तथाहि जगति संसारे लोके धर्मे प्रवर्तमानः लघुरपि नीचोऽपि सुहृदां पदे महतां मित्रमण्डले परां प्रीतिम् अत्यधिकसत्क्रियां साधर्मिकतया मेजे लेमे ॥ २७ ॥
रामपक्षे-धर्मात मुकृतेः अभिनवोत्सवः धर्मप्रभावादिनानुदिनं नूतनोत्वशाली नरः जन्ये संग्रामे रावणेन सह रणे प्रणयवशः प्रेमबशतः अभीरुत्त्वात् रामगतप्रेमातिशयात् त्रैलोक्यकंटकरावणहननोत्साहाद्वा मुखेन केषाश्चिदप्यरुन्तुदाभावेन चलन् गच्छन् पवनजनुषा पवनंजयपुत्रेण सह वाहिन्या सेनया च समम् आगात् अगमत् तदनु तत्पश्चात् हरेः सूर्यस्य प्रियवंशजे सूर्यवंशीयरामे श्रद्धापूर्णः विशेषत्रद्धालुर्जात इति शेषः तथाहि जगति लोके लघुरपि सुहृदां पदे मित्रतायां तदा मित्रत्वकाले परामतिशयितां प्रीतिम् अनुरागम् भेजे भजतिस्म ॥२७॥
कृष्णपक्षे-धर्माजन्ये धर्मयुद्धे पवनजनुषा वायुतनयेन भीमसेनेन सह नरः सैन्यगतलोकः अभिनवोत्सवः नित्यनवीनोत्सवेनोऽपलक्षितः वाहिन्या सह सेनथा सार्धम् च प्रणयवशतः कृष्णगतप्रेमतः पथि मागे सुखेन अनायासेन चलन् अगात् हरेः वायोः इन्द्रस्य वा प्रियवंशजे भीमे अर्जुने वा हरेः चन्द्रस्य प्रियवंशजे कृष्णे कृष्णस्य चन्द्रवंशीयत्वात्. श्रद्धापूर्णः भक्तियुक्तः अभवदिति शेषः तथाहि जगति लोके सुहृदां पदे मित्रवर्ग लघुपि कनीयानपि तदा मित्र तायां परामतिशयिताम् प्रीतिम् भेजे मित्रमार्गे नीचोचैर्विभागो न गण्यत इति भावः ॥ २७ ॥ .