SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-५ २२७ न्द्रस्य प्रियाम् रुचिरामनवद्याम् रसपारणाम् मधुररसप्रधानां पारणां व्रतान्तभोजनम् अकारयत् व्यधापयत् तथा च श्रीशान्तिनाथस्य सुमि नृपमन्दिरे परमान्नेन पारणा जाता श्रीपार्श्वनाथस्य कोपकनामनगरे धन्यकगृहे पायसेन पारणा जाता नेमिनाथस्य वरदद्विजगृहे परमानेन पारणा जाता महावीरस्वामिनः बहुलब्राह्मणगृहे परमानेन पारणा जाता सपदि सदने इत्यादि पूर्ववत् ।। रामपक्षे-ईशः राजा श्रेयान् कल्याणवान् विनयनयभाग इक्षोः जितकामस्य भिक्षोः चारणर्षेः त्रिगुप्तस्य सुगुप्तस्य च कतिपयदिनैर्द्विमासानन्तरम् अञ्जसा झटिति प्रियां निरवधाम् रसपारणाम् अकारयत् रामः शेषं पूर्ववत् ॥ कृष्णपक्षे-कतिपयदिनैः कतिपयदिनपर्यन्तं इक्षोः कामजयिनः भिक्षोजिनेन्द्रस्य प्रीयाम् नीतिसम्पादिकाम् रसपारणाम् अष्टाह्निकतपश्चर्याम् द्वारकानिर्माणाय अकारयत् व्यचरयत् सपदि हिरण्मयीत्यादिपूर्ववदवसेयम् ।। १२॥ प्रकृतिसुभगः श्रेयोलिप्सुः सुमित्रपवित्रवाक् , शुचिरसमयं मत्वाऽदत्त प्रभोर्बहुरोचितः। सपदि मुदितो धन्यो जन्योज्झितः प्रतिलम्भना दरिपरिभवाद् दूरे दूरे यशः स्वमकारयत् ॥१३॥ अन्वयः-प्रकृतिसुभगः श्रेयोलिप्सुः सुमित्रपवित्रवाक् प्रभोर्बहुरोचितः शुचिः असमयं मया अदत्त मुदितः धन्यः जन्योजिमतः प्रतिलम्भनात् अरिपरिभवात् दूरे दूरे स्वं यशः अकारयत् ॥ १३ ॥ व्याख्या-प्रकृतिसुभगः स्वभावसुन्दरः श्रेयोलिप्सुः कल्याणामिलापुका सुमित्रपवित्रवाक् सुमित्रेण शोभनसुहृदा तत्संगेनेत्यर्थः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy