SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २२६ महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धान महाकाव्ये सीता सत्या वा सैव अनुयायिनी यस्थ तेन विलम्बितः कृतविलम्बः तदनुरोधेन कृतविश्रामः तपसि तपोविषये तपोवने वा रसिकः कृतादरः अन्यत्र तपसि फाल्गुनेऽर्जुने वा रसिकः माघमासे वा रसिकः शृङ्गारिजनप्रियत्वात् वनचरघने दृष्टे इत्यादि पूर्ववद्योज्यम् ॥ ११ ॥ कतिपयदिनैरीशः श्रेयानकारयदञ्जसा, विनयनयभागू भिक्षोरिक्षोः प्रियां रसपारणाम् । सपदि सदने वृष्टिश्वासीत् तदाशु हिरण्मयी, त्रिदशललनाश्चक्रुर्नव्यं रसादवशाः शुचि ॥ १२ ॥ अन्वयः - कतिपयदिनैः अञ्जसा विनयनयभाग हेश: श्रेयान् भिक्षोः प्रियां इक्षो रसपारणाम् अकारयत् तदा भाशु सदने सपदि हिरण्यमयी दृष्टि: आसीत् अवशाः त्रिदशललनाः शुचि नृत्यम् चक्रुः ॥ १२ ॥ व्याख्या - कतिपय दिनैः कतिचिद्दिवसैः विनयनयभाक् विनयम् विनीतताम् नयम् नीतिश्च भजति सेवते इति तथा सारल्यनय निपुणः ईशो युवराजः श्रेयान् श्रेयांसकुमारः अञ्जसा झटिति भिक्षोः भिक्षाचरणशीलस्य जिनेश्वरस्य आदीश्वरस्य प्रियां मनोज्ञां पवित्रां निरवद्यामिति यावत् इक्षोः रसालस्य रैसालइक्षुरित्यमरः रसपारणाम् रसप्रचुगं पारणां व्रतान्तभोजनम् अकारयत् तदा प्रभुपारणानन्तरम् सपदि सहसा सदने गृहे हिरण्मयी सुवर्णमयी दृष्टिवर्षणम् आसीत् अभूत् आशु शीघ्रम् त्रिदशललनाः देवाङ्गना अप्सरस इत्यर्थः रसात् प्रभुभक्तिरसतः अनुरागाद्वा अशा भक्तिपरतंत्राः शुचि शोभनम् नृत्यम् चक्रुर्विदधुः ।। श्री शान्तिनाथ पार्श्वनाथ नेमिनाथ वर्धमानखामिनां पक्षे-कतिपय दिनैः कतिचिद्वयतीतैर्दिवसैः ईशः श्रेष्ठः नृपो वा श्रेयान् अतिशयेन प्रशस्य शुभंयुः विनयनयभाग् दाक्षिण्यनययुक्तः इक्षोः इः कामस्तं क्षौति नाशयतीक्षुः तस्य जितमदनस्य भिक्षोः मिक्षाचारिणो जिने •
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy