SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४ १६५ विदिताः ज्ञातारश्चेति ते तथोक्ताः आदिना भरतः शत्रुघ्न इत्यभिधया नाम्ना ख्यातः कनीयांश्च सर्वेविनयाद्विरेजुः कीदृशा इत्याह समाहितनया-समाहितः समवलम्बितः सम्यस्थिरीकृतोवा नय:= नीतियैस्ते दितशात्रवाः खण्डितपरिपन्थिजनाः भूमीभुजां विहित शक्रपराक्रमेण सुधिया प्रशस्याः । सम्यक चचाल जनता विनये नये च, जज्ञेऽस्य राज्यमहिमा विजये जये च । सारस्यमेव यशसो निनदेन देव, वृष्टेः सुखार्जनमनोमदनेऽदने च ॥७॥ अन्वयः-जनता विनये नये च सम्यक् च चाल । अस्य राज्ञः राज्यमहिमा मिजये जये च जज्ञे। सुखार्जनमनोमदने ऽदने च अस्य राज्ञो यशसो निनदेन देववृष्टेः सारस्यम् (अभूत) ॥ ७ ॥ ___व्याख्या-जनता-जनसमुदायः विनये-राजभक्तो नये-राजनीतौ च सम्यक्-सुष्टु चचाल-वर्तनशीलाऽभूत् । अस्य राज्ञः राज्य. महिमा-राजकर्मप्रशंसा शासनप्रभाव इति यावत् विजये-विशिष्टजये जये सामान्यजये च जज्ञे-जातः। किञ्च मुखार्जन-मनोमदने सुखाजने-सुखेच्छायां मनोमदने-चित्तहर्षे अदने भोजने च अस्य राज्ञः यशसो निनदेन यशःप्रवादेन देववृष्टे मेघवृष्टितोऽपि सारस्यसरसता अभूत् । मेघवृष्टितः सुखार्जनादिकं भवति ततोऽप्यस्य राज्ञो विशेषेणाऽभूदित्यर्थः ॥ ७ ॥ नाभूद् भयं प्रस्तृमरे सबले बले च, व्यक्ते जवे सुकृतकर्मणि तेजनेन । लोके विरोकरूचिरे सुचिरं सतोके, जातं समाभिरसमाभिरलङ्घनेन ॥ ८॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy