SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्य भगवत्यत्रमात्रा निरैक्षि, स्वप्ने चक्रं समुदितविभाचक्रकाष्ठावभास। अस्मान्चक्रायुध इति सुतस्याऽस्य नामाऽभिधानं, श्रीमान् शान्तियं. धितविधिवल्लोककल्पद्रुकल्पः । १४ । २०८ । अन्ये समाहितनया विनयाद विरेजुः, श्रीलक्ष्मणादिविदिता दितशात्रवास्ते । भूमीभुजां विहितशक्रपराक्रमेण, शत्रुघ्न इत्यभिधया सुधिया प्रशस्याः ॥ ६ ॥ • अन्वयः-अन्ये ते समाः तनया: विनयात् विरेजु: श्रीलक्ष्मणादिनिदिता:दितशात्रवाः भूमीभुजां विहि शक्रपराक्रमेण सुधिया शत्रुघ्न इत्यभिधया प्रशस्याः । रामपक्षे-अन्ये ते श्रीलक्ष्मणादिविदिताः शत्रुघ्न इत्यभिधया ख्यातः कनिष्ट सर्वे विनयाद्विरेजुः समाहितनयाः दितशात्रवाः भूमीभुजा विहित. शक्रपराक्रमेण सुधिया प्रशस्याः ॥ ६ ॥ व्याख्या---अन्ये=अपरे ते समा:-तुल्याः अष्टनवतिसंख्यकाः तनया: भगवत आदिदेवस्य पुत्राः विनयात्-शुरुजनेषु नम्रभावात् विरेजुः शुशुभिरे । कीदृशा इत्याह-श्रीलक्ष्मणादिविदिताः श्रीः शोभा बुद्धिर्वा कीर्तिर्वा लक्ष्मणं-नामधेयं तदादिभिर्विदिताः-जगतिप्रसिद्धाः। दितशात्रवादित-खण्डितं शात्र-शत्रुसमूहो यैस्ते यद्वा दिता=छिन्नाः शात्रवाः वैरिणो यैस्ते शौर्यसम्पन्ना निष्कण्टकाश्चेति भावः भूमीभुजांम्राज्ञां विषये मध्ये वा विहितशक्रपराक्रमेण-प्रकटी कृतेन्द्रतुल्यविक्रमेण हेतुना मुधिया-प्राज्ञजनेन शत्रुघ्न इत्यभिधया इत्याख्यया प्रशस्याः प्रशंसार्हाः ।। सिंहावलोकनन्यायेन प्रागनुक्तान् श्रीरामबलदेवभ्रातृन् इह नाम्ना निर्दिशति कविः-अन्ये प्रागनुक्तशिष्टा अपरे ते प्रसिद्धाः, श्रीलक्ष्मणादिविदिता: श्रीलक्ष्मण आदिउँपां ते श्रीलक्ष्मणादयस्ते च ते
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy