SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ (१४) पतिरूपत्वादेव न दोषावहम्, वास्तवस्य घटपटादिभेदस्याभावेऽपि रज्जो सर्पभ्रमनिबन्धनसर्वस्येवाविद्याजनितस्यानि र्वचनीयस्य तस्यास्त्येव सम्भवः इत्याद्या औपनिषदादीनां युक्तयस्सङ्ग्रहनयमूलिका अवसातव्याः, सङ्ग्रहनयोऽपि नामादीन् चतुरोऽपि निक्षेपानभ्युपगच्छति, नाम्नि स्थापनामन्तर्भावयन्नयं स्थापनां नाभ्युपगच्छनीति ये त्याहुः ते"नाम आवकहियं, ठवणा इत्तरिआ वा होज्जा आवकहिया वा होज्जा" इत्यनेन नाम्ना यावत्कथिकत्वं यावद्राव्यभावित्वलक्षणं स्थापनामा इत्वरिकत्वं स्थापनावतस्सत्वे सत्येव विनाशित्वं लक्षणं, निरुक्तलक्षणं यावत्कथिकत्वश्चत्यवमनयोर्विशेष किं न पश्यन्ति, न पश्यन्त्येव, पाचक-याचकादिनाम्नामप्ययावत्कथिकत्वेन यावत्कथिकत्वस्य नाम्नोऽव्यापकत्वात् , सूत्रे तु स्थूलभेदमात्रकथनम् , नाम पदप्रकृतिरूपं, स्थापना त्वाकृतिरूपमिति विशेषप्रतिबोधनमपि तान्प्रति न कतुं शक्यं, नाम्नः पदैकस्वभावत्वे गोपालदार के नामेन्द्रत्वाभावापतेः, यत्तु नामेन्द्रत्वं द्विविधम-एकमिन्द्र इति पदत्वं तच्च नाम्नि द्वितीय. मिन्द्रपदसङ्केतविषयत्वं तच्च पदार्थे इति तत्तु तेषामनुकुलमेव, व्यच्याकृतिजातीनां पदार्थत्वेनेन्द्रस्थापनाया इन्द्रा. कृतिरूपाया अपीन्द्रपदसकेतविषयत्वात् , नाम्नि भावनिक्षेपप्रवेशो मा प्रसाशीदिस्येतदर्थ भावभिन्नत्वे सतीत्येतावन्मा तत्रोपादेयम् , मत्वाकृतिभिन्नत्वे सतीत्यपि, ते
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy