SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ( १२३ ) तथा च नैगमनयाम्युपगतार्थः सामान्यं विशेषश्च तत्सङ्ग्रहो विशेषपरित्यागेन सामान्योरकारस्तत्प्रवणाध्यवसाय विशेषलं सामान्यमात्रग्राहिणि सङ्ग्रहे समस्तीति तत्र लक्षणसमन्वयः एवं नैगमादीत्यादिपदग्राह्यो व्यवहारः तदुपगतार्थो विशेषःतत्सङ्ग्रहोऽशुद्ध विषय विनिर्मोक स्तत्मवणाध्यवसायविशेषत्वं प्रस्थकस्थले वनगमनदारुच्छेदनादीनामशुद्धविषयाणां प्रस्थकत्वेन नैगमव्यवहारोपगतानां परित्यागेन मापनक्रियोपहितप्रस्थकाभ्युपगन्तरि सङ्ग्रहे समस्तीति तत्रापि लक्षण समन्वयः, तत्प्रवणत्वं नात्र तज्जनकत्वं किन्तु तन्नियतबुद्धिव्यपदेशजनकत्वं तेन विशेषविनिर्मोका शुद्ध विषय विनिर्मोकाद्यनेकार्थस्वरूपस्य नैगमाद्युपगतार्थसङ्ग्रहस्य नाध्यवसायविशेषस्वरूप सङ्ग्रहनय जन्यत्वमिति तज्जनकत्वस्य सङ्ग्रहनयेऽभावेऽपि नासम्भवः, सङ्ग्रह्नयेन विशेषविनिर्मोका शुद्धविषयविनिर्मोकादिनियत बुद्धिव्यपदेशयोस्सम्भवेन तज्जनकत्वस्य सङ्ग्रहनये सम्भवात् तथा च विशेषविनिर्मोकाशुद्धविषयविनिर्मोकाद्यन्यतमात्मक नैगमाद्युपगतार्थसङ्ग्रहनियत बुद्धिव्यपदेशजनकाध्यवसायविशेषत्वं सहत्व मिति सङ्ग्रह सामान्यलक्षणे न कोऽपि दोषः पदमादधातीति, अयं हि घटादीनां भवनाथान्तरत्वात्तन्मात्र त्वमेव स्त्रीकुरुते, घटादिविशेषविकल्पस्त्वविद्योपजनित एवेत्यभिमन्यते, सर्वस्य भवनात्मकत्वे भवनस्य महासामान्य सत्तालक्षणस्यैकत्वेन तदात्मकं जगदप्येकमेवेति घटपटादिभेदो न भवेदित्यापादनं त्वत्रेष्टा ·
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy