SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ (७७) पृथिवीत्यादौ', एतच्च तदोपपद्येत यदि पटादयः प्रागभावादयश्च जगति नाम न स्युः, इत्थं चान्यस्य कस्यचिदभावादव्यावर्तकत्वेन न विशेषणं व्यावय॑त्वाभावेन न विशेष्यमिति विशेषणविशेष्यलोपात्सन् घट इत्येवमप्यवक्तव्यस्तथा चैका. न्तस्वरूपविषयाभावादवाच्य इति सदसद्भयां घटस्य कथश्चिझेदाभेदालक्षणानेकान्ताभ्युपगमेतु विषयस्य सत्वेऽपि युगपत्तदुभयावबोधकस्यावक्तव्यशब्दातिरिक्तशब्दस्याभावेऽपितादृशस्थावक्तव्यशब्दस्य भावान सर्वथाऽवक्तव्यः किन्तु कथञ्चिदवक्तव्यः, अभेदवादकृततदोषस्य भेदवादेन परिहारसम्भवात् , न चाभेदैकान्तो घटस्य सदसद्भथामुक्तदोषभयाद् मा भवतु, भेदैकान्तस्तु तत्र घटत्वमनुद्य समवायेन सत्त्वस्य, विशेषणतया ऽसत्त्वस्य च विधानसम्भवादिति सच्चासत्वयोस्तथा विधानेन वक्तव्यतेति वाच्यं, अतिरिक्तसमवायविशेषणतयोरभावेन भेदैकान्तस्यापि विषयस्याभावात्तथाप्यवक्तव्यत्वादिति दशमः प्रकारः ॥ १० ॥ ____ अथवा घटस्य व्यञ्जनपर्यायार्थपर्यायभेदेन पर्यायो द्विविधः तत्र येन घटत्वसामान्यलक्षणपर्यायेण घटमात्रे घटशब्दप्रवृत्तिस्स घट शब्दप्रवृत्तिनिमित्तघटत्वसामान्यलक्षणपर्यायो व्यञ्जनपर्यायः, प्रतिक्षणं घटव्यक्तेर्योऽन्यान्यरूपेण परिणामः सोऽर्थपर्यायः, तत्रार्थपर्याय एकस्य घटव्यस्तेर्नान्यघटवृत्तीति निजं रूपं, ततश्च निजेनार्थपर्यायरूपेण
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy