SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ( ७६ ) शक्य इत्यवक्तव्य एव स इति तृतीयभङ्गः तर्कप्रवृत्तिरत्रेस्थम्, -घटस्य सत्वेनास्तित्वं यद्यभिमतं तदा वक्तव्यं किं यो यस्सन् स घट इत्येवं सचमनूद्य घटत्वं विधातव्यम्, तथाभ्युपगमे 'असति बाधके उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वय' इति सचे व्याप्यं घटत्वं व्यापकमिति सच्चस्य व्याप्यस्य सर्वगतत्वे तदात्मकस्य सतोपि सर्वगतत्वं सवव्यापकस्यापि घटत्वस्य सर्वगतत्वप्राप्तौ तदात्मकस्य घटस्यापि सर्वगतत्वप्रसङ्गः, न चायं प्रसङ्ग इष्टापच्या परिहर्तुं शक्यः, यत्किञ्चित्प्रदेश एवं घटस्य प्रतीयमानत्वेन तादृशप्रतिभासबाधितत्वात् सर्वगतत्वस्य एवं प्रतिनियतव्यक्तिष्वेव घटव्यवहारस्य भावेन सर्वगतत्वाभ्युपगमे तद्विलोपप्रसङ्गाचातो घटत्वेनैव घटस्सन् इति प्रथमभङ्गोपपत्तिः, एवं घटत्वेन घटस्य स तदा भवेद्यदि यत्रासच्वं तत्र घटत्वमिति स्यात्, असत्वश्च निषेधरूपत्वं निषेधश्व प्रागभावध्वंसात्यन्ताभावान्योन्याभावभेदेन चतुर्विध इति असवस्य प्रागभावादिचतुष्टये स घटत्वस्यापि तत्र प्रसङ्ग इति न घटत्वेन घटस्य निषेधरूपत्वलक्षणममच्वम्, अतस्सच्चमनूद्य घटत्वस्य विधानासम्भवात्सत्त्वेन न घटस्य घटत्वमिति तद्रूपेणैव घटस्याऽसत्त्वमिति सच्चेन घटोsसन्निति द्वितीयभङ्गोपपत्तिः, यदा सदसत्वे घटत्वमनूद्य विधीयेते यो यो घटस्स सन्नसंश्चेति तदा सदसच्चे घटमात्ररूपे प्रसज्येयातां, अत्र सामनैयत्येनोद्देश्यविधेयभावोऽभिमतो यथा 'प्रमाणं स्वपरव्यवसायिज्ञानं, गन्धवती
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy