SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ शास्त्रार्थकलोपस्कृतः यत्तु , एकत्वाविवक्षायामपि भावाख्यातस्थले एकवचनस्य साधुत्वदर्शनात्सङ्घयाया अविवक्षणेऽपि सम्पन्नो व्रीहिरित्यादावेकवचनोपपतेरलं जात्येकत्वपरतया तत्र समर्थनेनेति । तदकिश्चित्करम् । भावा अथ शास्त्रार्थप्रकारः। प्रकृत्यर्थतावच्छेदकमात्रवृत्तिधर्मेण साजात्याश्रयणे गौरवात्स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेनेतिसम्पन्नी बीहिरितिवत्प्रकार एव श्रेयानिति । सिंहावलोकनन्यायेन पुनरपि साजात्यं विचार्यते। ___ नन्वेकस्मिन्नेव भूतले ब्राह्मणशूद्रयोर्यदा घटस्तत्र अत्र ब्राह्मणस्य घटोऽस्ति शूद्रस्थ च घटोऽस्ति एवम्प्रयोगो न स्यात्तथाहि, एतद्देशविद्यमानत्वादिसंसर्गश्शूद्रघटे तन्निष्ठभेदप्रतियोगितावच्छेदकत्वमेव ब्राहाणघटगतैकत्वे इति चेन्न ? यावत्स्वसमभिव्याहतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्वरूपेणेति स्वीकारः। ब्राह्मणसंसगित्वं शूद्रघटे नास्तीतिभेदप्रतियोगितानवच्छेदकवत्त्वमेव ब्राह्मणधट इति दोषाऽभावात् । यावत्संसर्गित्वेतिनिवेशस्तेन कालिकसम्बन्धेन शद्रघटसत्त्वान्न दोषः प्रकृतशाब्दबोधोपकारकविषयसंसर्गग्रहणेनाऽदोषाच इति । यजधातीस्तत्तव्यक्तित्वावच्छिन्ने लक्षणा तेन पशुद्वयकत्वविशिष्टपशुकरणकयागत्वरूपोद्देश्यतावच्छेदकानाक्रान्तत्वात् एकत्वविशिष्टपशी एतद्यागीयव्यक्तिससर्गो नान्यस्मिन् इति परस्परभेदात् न व्यभिचारचर्चा । अत एव नरेण नरो यजेतेत्यादौ कत्तु भूतनरे करणभूतनरसजातीयत्वन्नास्ति संसर्गभेदात् । एकत्र करणत्वं संसर्गोऽपरत्र कत्त त्वम् । नन्वेवमपि अनेकबाहाणकत्तकशयनाधिकरणस्थानतात्पर्यणात्र ब्राह्मणश्शेते भुङ्क्ते इत्यादिवाक्यमनिष्टमपि स्यात् शयनक्रियाकर्तृभेदेन शयन क्रियाव्यक्तिभेदः । स्वसजातीयत्वं स्वस्मिन्नेव, तन्निष्ठभेदप्रतियोगितानवच्छेदककत्वसत्त्वादिति चेन्न ? स्वसमभिव्याहृतपदार्थत्यत्र पदार्थपदेन पदार्थतावच्छेदकस्य ग्रहणन्तथाच शयनरूपपदार्थतावच्छेदकसम्बन्धः शयनत्वावच्छिननिरूपितकतृत्वाख्यस्स एव ब्राह्मणान्तरेऽपि एतद्ब्राह्मणसजातीयो द्वितीयस्तृतीयोऽपि ब्राह्मणस्तद्राहित्यस्यैतद्देशेऽसत्त्वेन तादृशप्रयोगाऽभावात् । वस्तुतस्तु--- एकवचनसुप्रत्ययादेस्सम्पन्नो व्रीहि रित्यादौ संख्यारूपैकत्वमेवार्थो न तु स्वसजातीयनिष्ठभेदेति । स्वसमभिव्याहृतपदार्थेति पूर्वोक्त रीत्यैकवचनार्थः। वक्तृतात्पर्यावधारणेन व्रीहिस्सम्पन्नः अर्थात् न क्षेत्रान्तरस्थसस्यान्तरं सम्पन्नं न परिपक्कमित्यर्थः । सम्पन्नपदोत्तरसुवाच्यसंख्यारूपैकत्वविशिष्टो ब्रीहिरिति फलति । वैशिष्टयञ्च बीहावेकत्वस्य स्वाधिकरणत्ववत्त्व स्वाधिकरणप्रकृत्यर्थतावच्छेदकवदितराऽवृत्तिसम्पत्यवच्छिन्नाऽभेदवत्वोभयसम्बन्धेन । स्वमेकत्वम् तदधिकरणं ब्रीहित्वम् । तदव बीहावित्येकसम्बन्धसंघटनम् । स्वमेकत्वम् । तदधिकरणप्रकृत्यर्थतावच्छेदकं ब्री
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy