SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ शास्त्रार्थकलापरिष्कृतः प्रत्याहारस्तथा च स्वं सुप्त्वन्तद्व्याप्यता आप्त्वे तद्व्याप्यतैव प्रथमात्व इति द्वितीयसम्बन्धाऽसंघटनेन दोषस्य दुर्वारत्वात् । किब व्याज्यत्वस्य प्रकृते न्यूनवृत्तित्कलक्षणाक्रान्तत्वान्निर्वा हेऽपि सुअम्गतान्यतरत्वस्या खण्डोपाधिरूपस्याऽपि सुप्त्वविशिष्टत्वेन तेन धर्मेणाऽपि साजात्यापत्तौ नीलं घट इति वाक्यस्याऽपि प्रामाण्यापत्तेश्च । न च सुअम् जस् एतदन्यतमनिष्ठो धर्मोऽन्यतमत्वन्त व्याप्यताऽन्यतरत्वेऽस्ति । अर्थात्सुप्त्वव्याप्यस्सु अम् जस् गतान्यतमत्वं तद्व्याप्योऽन्यतरत्वमिति स्वव्याप्याऽव्याप्यत्वन्न जातमित्यन्यतरत्वेन साजात्यन्न भविष्यतीति न दोष इति वाच्यम् ? स्वव्याप्यत्वाख्यप्रथमसम्बन्धम्परित्यज्य तत्स्थाने स्वव्याप्यभेदाऽघटितत्व-स्वम्याप्याऽव्याप्यत्वमित्युभयसम्बन्धेन । तथा च अन्यतरत्यस्य भेदाघटितत्वेन तेन साजात्याऽभावान्न काप्यापत्तिरिति वर्णनात् । न च भ्याविभक्तेस्तृतीयाचतुर्थीपञ्चमीपर्याप्तत्वात् भ्याविभक्तिगतभ्याम्त्वस्याऽपि सुप्त्वविशिष्टत्वेन भ्याम्वत्त्वेनापि विभक्तिविभाजकत्वेन साजात्यापत्तौ तृतीयाचतुर्थी द्विवचनान्तघटितस्य नीलाभ्यां घटाभ्यामित्यादिवाक्यस्यापि प्रामाण्यापत्तिरिति वाच्यम् ? स्वव्याप्यभेदाऽघटितश्रावणप्रत्यक्षकि षयताऽनवच्छे दकत्व-स्वव्याप्याऽव्याप्यत्वमित्युभयसम्बन्धेन । तथा च भ्याम्त्वस्य श्रावणप्रत्यक्षविषयतावच्छेदकत्वेन तस्य विभक्तिविभाजकत्वाऽभावेन तेन साजात्यानाश्रयणेन दोषाऽभावात् । न च सुडिति प्रत्याहार"स्सुडनपुंसकस्ये"त्यत्र सुटत्वन्नाम पाणिनीयसङ्केतसम्बन्धेन सुट्पदवत्यमेव तस्यापि सुप्त्वविशिष्टरवेन सुटल्वेन विभक्तिविभाजकेन साजात्यापत्तौ नीलं घट इति पूर्वोक्तापत्तिस्तदवस्थैव अन्यतमत्वेतिप्रसङ्गश्चेति वाच्यम् ? सुप्रविशिष्टजातित्वं विभक्तिविभाजकत्वं तेन धर्मणैव साजात्यम्, प्रकृते सुटत्वस्य सुटपदवत्त्वरूपत्वेन जातित्वाऽभावः, अन्यतरत्वमन्यतमत्वञ्चाखण्डोपाधिरेव न तु जातिः । जात्यखण्डोपाध्यतिरिक्तपदार्थस्य किञ्चिद्धर्मपुरस्कारेणैव भानमितिन्यायनियमेऽखण्डोपाधेः पार्थक्येनोपादानाद् भेदद्वयावच्छिन्नप्रतियोगिताकभेदवत्वाचचान्यतरत्वादेर्जातित्वाऽभाव इति न नीलं घट इत्यादिवाक्यानाम्प्रामाण्यमिति विशिष्टव्याख्यानात् । न च सुटत्वादिवत् प्रथमात्वद्वितीयात्वतृतीयात्वादेरपि प्राचीनसङ्केतसम्बन्धेन प्रथमापदत्वरूपत्वेन तेषामपि जातित्वन्नास्ति "प्रथमयोरम्" "प्रथमायाश्च द्विवचने भाषायामित्यादी प्राचीनसङ्केतितसंज्ञानां व्यवहारविषयत्वमिति प्रथमात्वादेर्जातित्वाऽभावेन विभक्तिविभाजकत्वाऽभावेन सर्वस्वभङ्ग इति वाव्यम् ? सुब्बृत्तिः संख्याऽनिरूपितशक्ततावच्छेदको धर्म एव सुब्विभक्तिविभाजकः। संख्याऽनिरूपितेत्यम्य संख्यानिष्ठनिरूपकतानिरूपितनिरूप्यत्वाऽभाववच्छक्ततावच्छेदकधर्म इत्यर्थः, एवंविधशक्ततावच्छेदकधर्मेणैव साजात्यम् । सुप्त्वस्य सुटत्वस्य च शक्तता:नवच्छेदकत्वान्न तेन साजात्यम् । सुत्वस्य एकवचनत्वस्य च संख्यानि पितशक्ततावच्छेदकत्वेन अनिरूपितवाऽभावेन तेनाऽपि साजात्यानाश्रयणम् । प्रथमात्वद्वतीयात्वादेस्तु सम्बोधनकर्म
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy