________________
व्युत्पत्तिवादः
"१८
वाक्ये । प्रकारताविशेष्यतयोश्च निरूपितत्वसम्बन्धेन लक्षणया संसर्गविषयतायामम्बयः, तथा च पदजन्यप्रतिपत्तीयविषयताविशिष्टसांसर्गिक विषयत्वाकाङ्क्षाप्रयोज्यशा 'ब्दबोध निरूपित विषयत्वाभिन्न इत्यर्थः । वै० स्वनिष्ठनिरूपकतानिरूपित निरूप्यतावस्वस्वविशिष्टविषयतानिष्ठनिरूपकतानिरूपितनिरूप्यतावत्त्वोभयसम्बन्धेन । सम्बन्धघटक
वै० स्वभिन्नत्व- स्वनिरूपितपद साकाङ्क्षपदनिष्ठप्रयोजकतानिरूपितप्रयोज्यतावत्त्वोभयसम्बन्धेन । स्वं विषयता । एवञ्च विषयभेदाद् विषयताभेदस्य मान्यत्वेन एकत्वप्रतियोगिकसमवायाद् भिन्नो हि घटत्वप्रतियोगिकसमवाय इति नापत्तिः । प्रकारतानिरूपितत्वम् सांसर्गिकविषयतायां ये नोपगच्छन्ति ते तु संयोगेन पर्तते वह्निरवृत्तिरिति बुद्धिम्प्रति समवायेन पर्वतो वह्निमानिति निश्चयस्यापि प्रतिबन्धकत्वापत्तिभिया पराहताः । विशेव्यतानिरूपितत्वमपि सांसर्गिक विषयतायामावश्यकमेवान्यथा संयोगेन वहयभाववानिति बुद्धिम्प्रति यथा संयोगेन वह्निमानिति निश्चयस्य प्रतिबन्धकत्वन्तथा स्वसंयोगितयोगसम्बन्धेन वह्निमान् पर्वत इत्यस्यापि प्रतिबन्धकत्वापत्तेः । न च स दोषस्तु संयोगत्वमात्रावच्छिन्नत्वस्य संसर्गत्वे निवेशेनैव परिहर्तुं शक्यत इति वाच्यम् ? तथा सति चत्वरीयसंयोगेन वह्निमान् पर्वत इतिज्ञानस्य प्रतिबन्धकत्वानुपपत्तेरिति वदन्ति । अत्रैव प्रसङ्गाद्विषयत्वं विचार्यते
प्रतीयमानतया भोगसाधनत्वं विषयत्वम् । भोगत्वमनुभवविशेषत्वम् । सुखदुःखान्यतरसाक्षात्कारत्वमति यावत् । अत्र साधनता चाभेदसम्बन्धावच्छिन्ना गृह्यते ।
ननु
गच्छ गच्छसि चेत्कान्त पन्थानस्सन्तु ते शिवाः । ममापि जन्म सत्रैव भूयाद् यत्र गतो भवान् ॥
इत्यत्र तच गमने मम मरणमवश्यम्भावि नात्र शक्तिलक्षणयोस्सम्भवस्तद्वाचकपदाभावात् । किञ्च निश्शेषच्युतचन्दनं स्तनतई निर्मृष्टरागोऽधरो, नेत्रे दूरमनअने पुलकिता तन्वी यथेयन्तनुः । मिथ्यावादिनि दूति बान्धवजनस्याऽज्ञातपीडागमे, वाप स्नातुमितो गतासि न पुनस्तस्याऽथम
-स्याऽन्तिकम् ॥
इत्यत्र दूतीसम्भोगस्य च वाचकलक्षकपदयोरमात्रात्तयोर्बोधानापत्या च व्यञ्जनाख्यवृत्तिः कर्त- व्यैवेति कथक्कार्यकारणभावद्वयमेवेति चेन्न ? तत्र तत्रानुमित्यात्मबोधस्य मानसोदीच्यबोधस्य वा स्वी-कारेणैवोपपतौ पृथग्वृत्तेरनावश्यकत्वात् । ननु बोधद्वयस्वीकारे गौरवमिति चेन्न ? भवन्मतेऽपि शक्त्या 'जन्मादि पदाच्छाब्दबोधानन्तरं व्यञ्जनावृत्तिज्ञानात्तत्तदर्थोपस्थित्या व्यङ्ग्यार्थबोधेन बोधद्वयस्यावश्यकत्वात् । नन्वेवमपि बोधकतैवास्तु वृत्तिविलक्षण सङ्केत लक्षणयोश्च वृत्तित्वन्न स्वीकार्यमिति चेन्न ? गङ्गापदन्न तीरवाचककिन्तु तीरसम्बन्धिनीरवाचकमिति गङ्गायां घोष इति वाक्याद् बोधे आयुर्वै घृतमिति वाक्याच्च घृतपदन्न घृतकर्मकभक्षणवाचकमिति बोधे च तीरनिरूपिताऽऽवेयतावान्घोष इति • बोधस्य घृतकर्मकभक्षणमायुर्जनकमिति बोधस्य चानुभवसिद्धत्वेन लक्षणावृत्तेरावश्यकत्वात् । शक्तिअर्मेण गाछ माछ गगरीत्याथपभ्रंशानां वृक्षमत्स्यघटादिबोधकत्वेन वृक्षमत्स्यघटादिवाचकत्वापत्तेस्सतस्य वृतित्व स्वीकारात् इति ।