SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ शास्त्रार्थकलोपस्कृतः । २२. मेव कर्तरि शबित्यादेः शबादिविधायकत्वात् , प्रकृते ण्यन्तसमुदायस्य उत्तरमेवाख्यातं तेन तदर्थनिरूपितकर्तृत्वं च बोध्यते, अपितु ज्यर्थविशेषि. तधात्वान्वितकत्वमेवेति न ताहशापवादविषयतेति वाच्यम् ? कर्माख्यातस्थले विशेष्यविशेषणभाववैपरोत्येन व्यापारविशेषितक्रियाया अपि ण्यन्तधात्वर्थत्वात् । मैवम् , लकारसामान्यवृत्त्या यत्र कत्तु त्वं प्रतीयते तत्रैव कर्तरि शचित्यस्य विधायकता, भत्र कर्मत्वसमशोले कत्तु त्वे आत्मनेपदस्वेन शक्तिः। वस्तुतः फलव्यापारयोः पृथक् धात्वर्थतामते गच्छतोत्यादाविव गम्यते इत्यादावपि लकारेणाश्रयत्वरूपकतृत्वाभिधाने यग अनुपपन्न इति, परस्मैपदसमभिव्याहतधातुना यादृशविशिष्टोऽर्थः प्रत्याय्यते. ताहशविशिष्टार्थान्वितकर्तृत्वाभिधानमेव विषयः । एवं च प्रकृतेऽपि नानुपपत्तिरिति ध्येयम् । ग्रामो याप्यते, अर्थो बोध्यते इत्यादौ भावनाविशेष्यतया प्रामादेर्भानेऽपि गमनादिकत्त: कर्मत्वविवक्षायां तस्यैवाख्यातार्थविशेष्यतया बोधोऽ व्युत्पन्नः, ण्यन्ते कर्तुश्च कर्मण इत्यनुशासनादतोऽजां प्रामो याप्यते शिष्यमर्थो बोध्यते इत्यादयो न प्रयोगाः । ग्रामो याप्यते, अर्थो बोध्यते, इत्यादौ फलं विषयित्वादिरूपं च मुख्यभाक्तसाधारणं कर्मत्वमेवाख्यातार्थः । फलव्यापारयोः पृथगधात्वर्थतामते आश्रयत्वमेवाख्यातार्थः। धात्वर्थव्यापारविशेष्यतया तादृशाश्रयत्वविशेषणतया च धात्वर्थफलस्य भानेऽपि, ण्यर्थव्यापारस्य जन्यतासम्बन्धेनैव धात्वर्थक्रियाज्ञानादिविशेषणत्वं पूर्ववदेव । अजा प्रामो याप्यते इत्यादिकस्तु न प्रयोगः, दितीयया कर्मत्वबोधने धात्वर्थव्यापारविशेष्यतया ज्यर्थबोधसामप्रथा: प्रयोजकत्वात् । यगादिसमभिव्याहतस्थले च धात्वर्थविशेषणतयैव ण्यर्थस्य बोधात् , ण्यन्तधातोः सकर्मकत्वे तदुत्तरभावाख्यातस्य भावे चाकर्मकेभ्य इत्यनुशासनेनासाधुस्वाच्च न तादृशप्रयोगः । प्रामं याप्यते इति भावाख्याते प्रयोगस्त्विष्ट एव । ण्यन्तकर्मासमभित्र्याहारादेकदा कर्तृत्वकर्मत्वबोधकताया आख्यातस्याव्युत्प. न्नतया श्रखा प्रामो याप्यते इत्यादयो न प्रयोगाः। एवं तण्डुलः सहायेन पाच्यते चैत्रेणेत्यादौ धात्वर्थे सहायादिक स्वस्य तद्विशेषणण्यर्थव्यापारे च चैत्रादिकर्तृत्वस्य सृतीयान्तार्थस्य बोधः। शेषं पूर्ववदिति दिक् । प्रामं गच्छतोतिवरवं गच्छतोति प्रयोगवारणाय परसमवेतत्वमपि द्विती- . यार्थ इष्यते । स्वेन स्वं गच्छतीतिप्रयोगापचिरित्याशयवानाह स्वं गच्छत्तीति । परत्वम्मेदः । एकादे शेऽपोति-परसमवेतवघटक इस्यर्थः । -
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy