SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४६ व्युत्पत्तिवादः। न च सम्बन्धादेरपि नामार्थतया तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेष्यतया भानानुपपत्तिः । तासमानाधिकरणा तादृशविशेष्यत्वावच्छिन्ना ताहविशेष्यत्वाऽभिन्ना वा या स्वत्वनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या आश्रयत्वसम्बन्धावच्छिन्ना समवायत्वनिरठावच्छेदकतानिरूपितावच्छेद्यतावती समवायनिष्ठावच्छेदकता तादृशावच्छेदक. तानिरूपितावच्छेद्यतावती या समवायनिष्ठा संसर्गता तन्निरूपिता या पुरुषत्वनिष्ठावपछेदकतानिरूपितावच्छेद्यतावती स्वरूपसम्बन्धावच्छिन्ना पुरुषनिष्ठविशेष्यतानिरूपित. पुरुषत्वनिष्ठा प्रकारता तन्निरूपिता या किश्चित्सम्बन्धनिष्ठावच्छेदकतानिरूपितावछेद्यतावती अवच्छेदकता तादृशावच्छेदकत्वानिरूपिता पुरुषनिष्ठा विशेष्यता ताह. शविशेष्यतानिरूपको बोधो भवति । यथा घटोऽस्तीत्यादी बोधस्तथाहि, समवायस. म्बन्धावच्छिन्नपुंस्त्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती या स्वरूपसम्बन्धावच्छि ना पुंस्त्वनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या समवायसम्बन्धावच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपिताव छेद्यतावती घटनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा याऽभेदसम्बन्धावच्छिन्ना घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता समवा. यसम्बन्धावच्छिन्नैकत्वत्वावच्छिन्नैकत्वनिष्ठप्रकारतानिरूपित्ता च या कर्तृत्वावच्छिन्ना कर्तृनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या वृत्तित्वसम्बन्धावच्छिन्ना कर्तृत्वावच्छिन्ना अथवा कत्त्वावच्छिन्नविशेष्यत्वावच्छिन्ना कतृ पदार्थनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या परिच्छिन्नत्वसम्बन्धावच्छिन्नपयाप्तिसम्बन्धावच्छिन्नवर्तमानकालत्वावच्छिन्नवर्तमानकालनिष्ठप्रकारतानिरूपिताऽस्त्यर्थक्रियात्वावच्छिन्ना क्रियानिष्ठा विशेष्यता ताहशविशेष्यताशालिशाब्दबोधः । एवञ्च प्रकृते राज इत्यत्र राजपदेन राजपदार्थोपस्थितिः ङसपत्ययेन स्वत्वोपस्थितिः राजपदार्थस्य स्वत्वपदार्थे भेदलक्षणेन निरूपितत्वसम्बन्धेनान्वयोऽस्ति । नामार्थराजप्रकारकस्वत्वविशेष्यकभेदान्वयबोधम्प्रति प्रत्ययजन्योपस्थितेः कारणत्वम् । एवञ्च राजा पुरुष इत्यत्र प्रातिपदिकार्थे प्रथमाविधानात्प्रत्ययजन्योपस्थित्यभावान्न राजप्रकारकभेदान्वयबोधसम्भवः, नामार्थान्तरे प्रत्ययजन्योपस्थितेरसम्भव हत्याशये. नाह नामाथेति । नच सम्बन्धादेरपोति । अयमभिप्रायः, यदि नामार्थप्रकारकभेदान्वयबोधम्प्रति प्रत्ययजन्योपस्थितेः कारणत्वन्तर्हि राजनिरूपितस्वत्वप्रकारकपुरुषविशेष्यकशाब्दबोधो राज्ञःपुरुष इत्यत्र न स्यात् षष्ठयर्थस्वत्वमेव सम्बन्धस्तदपि ङस्प्रत्ययार्थो यथा तथा स्वत्वरूपनाम्नस्सम्बन्ध. रूपनाम्नश्वार्थो भवत्येव । एवञ्च स्वत्वरूपसम्बन्धस्याऽपि नामार्थत्वेन स्वत्वप्रकारका शाब्दबोधे विशेष्यतासम्बन्धेन पुरुषस्य प्रतीतिर्ने स्यात् प्रत्ययजन्योपस्थित्यभावादिति ।
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy