SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११४ व्युत्पत्तिवादः न च धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्प चिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्न विशेष्यकोपस्थितिस्तद व र्विषमसंख्याकत्वन्न भवत्यर्थात् विशेषणानि बहूनि नीलो घटः पोतो घटः सुन्दरो घर्ट इति विशेष्यञ्चैकमेव तत्रात्मनिष्ठप्रत्यासत्या शाब्दबोधे यदात्मन्युपस्थित्यादिकन्तदात्मन्येव शाब्दबोधः । आत्मनाश्ञ्च नानात्वेन पृथक् पृथकू अनन्तकार्यकारणभावस्तथाहि, समवायसम्बन्धेनाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूतिघटत्वा च्छिन्नविशेष्यताकशाब्द बुद्धित्वावच्छिन्नम्प्रति समवायेनाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नोपस्थित्यादिकङ्कारणम् । एवं समवायेन अभेदसम्बन्धावच्छिन्न पीतत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्दबुद्धित्वावच्छिन्नम्प्रति समवायेनाऽभेदसम्बन्धावच्छिन्नपीतत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नोपस्थित्यादिकङ्कारणम् । एवं समवायेनाऽभेदसम्बन्धावच्छिन्नसुन्दरत्वावच्छिन्नेत्याद्यनन्तकार्यकारणभावाः गौरवग्रस्ताः । विषयनिष्ठप्रत्यासत्त्या शाब्दबोधे तु घटत्वावच्छिन्न विशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारतावच्छेदक• तासम्बन्धेन तत्पुरुषीयशाब्दबुद्धित्वावच्छिन्नम्प्रति घटत्वावच्छिन्न विशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्न प्रकारतावच्छेदकतासम्बन्धेन तत्पुरुषीयोपस्थित्यादिकङ्कारणमित्येकेनैव कार्यकारणभावेन पूर्वोक्तवाक्ये निर्वाहः । किञ्च यत्र विशेषणमेकमेव विशेव्याणि बहूनि नीलो घटः नीलः पटः नीलो मठ इति अत्रात्मनिष्ठप्रत्यासत्त्या शाब्दबोधे यदात्मन्युपस्थित्यादिकन्तदात्मन्येव शाब्दबोध इति पूर्वोक्तरीत्या समवायेनाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्द बुद्धित्वावच्छिन्नम्प्रति समवायेनाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नोपस्थित्यादिकङ्कारणम् । एवं समवायेनाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितपटत्वावच्छिन्न विशेष्यताकशाब्दबुद्धि त्वावच्छिन्नम्प्रति समवायेनाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितपटत्वावच्छिन्न विशेष्यताकोपस्थित्यादिकङ्कारणमिति । आत्मनामनन्तत्वेन पृथक् र अनेककार्यकारणभावा गौरवग्रस्ताः । विषयनिष्ठप्रत्यासत्या शाब्दबोधेतु अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारता निरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितविषयता ( धर्मितावच्छेदकता ) सम्बन्धेन तत्पुरुषीयोपस्थित्यादिकङ्कारणमिति लाघवसम्पन्न एक एव कार्यकारणभावः । तथाच प्रकृते मूलग्रन्थसंलगनेच्छया आत्मनिष्ठप्रत्यासत्या शब्दबोधे चिकीर्षिते विषयप्रवेशाद् द्रव्यघटपदाभ्यान्द्रव्यत्वेन घटत्वेन चोपस्थितिस्तदात्मनि समवायेन तद्विषयकशाब्दबोधस्तत्रैव, घटो घट इत्यत्र द्वाभ्यां घटपदाम्यां घटत्वेनैकरूपेणैवोपस्थितिरिति वैषम्यात्तादृशदृष्टान्तेन घटो घट इत्यत्रापत्तिर्न सम्भवतीत्याशयेनात्मनिष्ठप्रत्यासति गौरवान्विताम्विहाय लाघवोपस्कृतविषयनिष्ठप्रत्यासत्या शाब्दबोधमाह धर्मिताव
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy