SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ (१९५) ससमठ नवरथ निर्णयो नाम पञ्चनवत्युत्तरशततमं सूत्रम् ।। विश्वकर्मोवाच मठाः सप्त प्रकर्तव्याः प्रासादराजकोपमाः। पृथगेकैक संस्थानं कथये भूमिकाक्रमम् ॥१॥ मन्दरो हेमकूटाख्यो वर्धनः पृथिवीजयः । कैलासो रत्नकूटाख्यो मेरुसंशोऽभिधानतः ॥२॥ षड्दारुकाय वरकै युग्माकारैः सुसंस्थिताः। द्विक्षणा च पट्टशाला मत्तगजा याम्योत्तरे ॥३॥ ऊर्वेऽपवरकयुक्ताः पदृशाला विवर्जिताः। प्राकारकपिशीर्षाव्या: प्रतोल्यन सुशोभिताः॥४॥ इति मन्दरः॥ मध्ये चतुष्की स्तम्भाल्या अलिन्दैः परिवेष्टिता । द्विक्षणान पट्टशाला मूलगृहोर्श्वभूमिका ॥५॥ द्वितीयभूमस्तके तु कर्तव्या पुष्पकाकृतिः। हेमशीर्षन्तु तन्नाम कर्तव्यं तु तपस्विनाम् ॥ ६॥ इति हेमशीर्षः। याम्योत्तरे पट्टशाला षड्दारुकापवरकैः। वर्धमानस्तु तन्नाम कर्तव्यः शान्तिमिच्छता ॥७॥ इति वर्धमानः ।। विभूमिका तथा ताभ्यां त्रिक्षणा: पट्टशालिका। पृथ्वीजयश्च तन्नाम कर्तव्यस्तु मुनीन्द्रकः ॥ ८॥ इति पृथ्वीजयः ।। द्विक्षणा पट्टशाला च कर्तव्या चैव दक्षिणैः । मत्तावरणयुक्तक भूमिका कपिशीर्षकैः ॥९॥ याम्योत्तरेऽपवरकान् त्यक्त्वा न्यलेच्चतुः क्षणाम् । अप्रशालां प्रकुर्वीत कैलासं तु भवालयम् ॥ १० ॥ इति कैलासः ।। तृतीयभूमस्तके तु कर्तव्या पुष्पकाकृतिः। रत्नशीर्षमितिख्यातं मुनीनां जितचेत्साम् ॥ ११ ॥ इति रत्नशीर्षः॥ पञ्चभौमः प्रकर्तव्यः सुवेदी संस्थितो मठः । द्विभौमा च पहशाला पुष्पकं तु तहतः ॥ १२ ॥ एवं तु मेरुसंशश्च कर्तव्यस्तु मठाधिपः। तपस्तेजोभवो नित्यं नृपराष्टस्य शान्तिदः ॥ १३॥ इति मेरुः ।। इति सप्तमठाधिकारः॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy