SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा ४८३ विश्वकर्मोवाच-- सुभद्रश्च किरीटी च दुन्दुभिः प्रान्त एव च। मनोहरश्च शान्तश्च नन्दाख्यश्च सुदर्शनः ॥ १५ ॥ रम्यकश्च सुनामश्च सिंहः सूर्यात्मकस्तथा। निर्गुढाने त्रिकं ख्यातं द्वादश मुखमण्डपाः ॥ १६ ॥ द्वाराग्रे चैव निर्गुढं तदने च चतुष्किका। सुभद्रो नाम विज्ञेयो मण्डपः सर्वकामदः ॥ १७ ॥ उभयोः कक्षयोदद्यात् किरीटी नामतः स्मृतः । एकं च दुन्दुभिः पूर्व अथाभौ प्रान्ततस्तथा ॥ १८ ॥ पूर्वे चतुष्किकायां च कामदश्च मनोहरः । शान्तश्चैतदुभाभ्यां च स्तम्भयभिरेव च ॥ १९ ॥ मूलप्रासादहिगुणं त्रिकाणां पृथुनिर्गतम् । त्रिभिश्चतुष्किकाऽऽयामे पृथुत्वे त्रिभिरेव च ॥ २० ॥ सर्वप्रासादपीठस्य समाख्यातं त्रिकं तथा । पुनरेव प्रवक्ष्यामि तद्विधान् पट त्र मण्डपान् ॥ २१ ॥ तस्य याहो पुनर्दद्यात् प्रत्यलिन्दमनुक्रमाद । चतुष्कीक्रमयोगेन मण्डपान षट् च लक्षयेत् ॥ २२ ॥ चतुष्किके चेत्पूर्वेऽग्रे नन्दाख्यः सर्वकामदः । म्यक्त्वाग्रे चोदरे गर्भे दद्याश्चैव सुदर्शनः ॥ २३ ॥ उभे कक्षे पुनःश्चाने रम्यक: समुदाहृतः । अग्रे द्विचतुष्किकाभ्यां सुनाभो नाम सम्प्रतः ।। २४ ।। अलिन्दयुक्तौ द्वौ पक्षी सिंहनामा स उच्यते । मुक्तकोणाकृतिः स्थित्वा पूर्वकणे सूर्यास्मकः ॥२५॥ नालोद्भवः पृथुत्वेच चतुःक्षणाग्रनिर्गतः । भणे क्षणे चतुष्क्या वितानसंवरणोदयः ॥ २६ ॥ इतिसुभद्रादिमण्डपाः॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां विंशतिमण्डपाधिकारो नाम सप्ताशीत्युत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy