SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ४५२ प्रासादाधिकारो नाम पञ्चसप्तत्युत्तरशततमं सूत्रम् ॥ कर्णे त्यक्त्वाऽनुगे दद्यात् पताको नाम शोभनः । रथे प्रतिरथे कर्णे भवेन्नन्दन उत्तमः ॥ २६ ॥ इति पताकनन्दनौ १७-१८ ॥ इति पञ्चभूमाः षट् ॥ चतुर्दशविभक्ते च द्विभागः कर्णविस्तरः । भवेत्तदृद्विगुणं भद्रं निर्गमश्चार्धभागिकः ॥ २७ ॥ भद्रकर्णयोर्मध्ये द्वौ द्वौ प्रतिरथौ तथा । निर्गतं चार्धभागेन सार्धभागस्तु विस्तरः ॥ २८ ॥ सप्तभूमिश्च कर्तव्यः स श्रीतिलकनामकः । भद्रे वाय्र्यन्तरे द्वे च महाकान्तस्स उच्यते ॥ २९ ॥ इति श्रीतिलकमहाकान्तों १९-२० ॥ कर्णोदकैः सुन्दरः स्यात् प्ररथे चारुवर्धनः । भद्रेषु प्रतिभद्रं च भवेत् कमलसंज्ञकः ॥ ३० ॥ इति सुन्दर चारुवर्धन कमलाः ॥ २२. नोदकान्तरे छे छे किरणो नाम नामतः । इति किरणः : २४ ॥ सप्तभूमाश्च कर्तव्याः प्रासादा: शुभलक्षणाः ॥ ३१ ॥ इति सप्तभूमाः षट् ॥ छन्देऽष्टादशधा भक्ते द्विभागः कर्णविस्तरः | पादोनद्वशः प्ररथः सार्धं स्यात्तत्र चानुगम् ॥ ३२ ॥ बालपञ्जरः सपादो भद्रं स्यात्पञ्चभागिकम् | भागाबुभे कर्णिके च. वेदांशं मुखभद्रकम् ॥ ३३ ॥ नवभूभाश्च कर्तव्या घण्टा मन्दारपुष्पवत् 1 शुकाप्रयुक्तश्च महा-पद्मः स्यात् सर्वकामदः ॥ ३४ ॥ इति महापद्मः २५ ॥ इति नवभूमएकः ॥ स्तम्भाद्याचैव गर्भाद्याः पादा: श्रीतर्यमानत: ? । चतुर्विंशतिभिश्चारै रेखाभिश्च वराटकाः || ३५ || वराटे द्राविडे चैव घण्टान्त उदयः स्मृतः I प्रोताश्च विविधाश्छन्दाः प्रयुक्ता वास्तुवेदिभिः ॥ ३६ ॥ कर्णमानोदयं सर्व घण्टान्तं च प्रकल्पयेत् । दशभागोदयं कृत्वा विभजेत्तदनन्तरम् ॥ ३७ ॥ द्विभागा च भवेज्जङ्घा द्विगुणः कूटकोदयः । चतुर्भागोया घण्टा विभागो ह्येकभूमिके ॥ ३८ ॥ इत्येकभूमिकः ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy