SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ (१७५) वराटप्रासादलक्षणात्मकं पञ्चसप्तत्युत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच--- प्रासादान सम्प्रवक्ष्यामि वराटान्वयजानथ । नामपादप्रमाणं च संस्थानोन्मानलक्षणम् ॥१॥ वराट: पुष्पकश्चैव श्रीपुषश्च तृतीयकः। सर्वतोभद्रनामा च सिंहो वे सिंहभद्रकः ॥२॥ कर्णिकारश्च कुमुदो वर्द्धमानः श्रीवत्सकः। पुण्डरीकः सुनाभश्च वेणुकः सिंहपञ्जरः ॥३॥ नन्द्यावर्तश्च पुण्याख्यः पताको नन्दनस्तथा। श्रीतिलको महाकान्तः सुन्दरश्चास्वर्द्धनः ॥ ४॥ कम्बल: किरणश्चैव महापास्तथापरः। पञ्चविंशतिराख्याता: प्रासादाः सर्वकामदाः ॥५॥ चतुरश्रीकृते क्षेत्रे एकभागविभाजिते । चतुःस्तम्भसमायुक्तमेकद्वारेणभूषितम् ॥ ६॥ क्षेत्रे भागोदयं स्तम्भं रथभूफलकान्तरम् । आदिभूम्युदयार्धेन पीठबन्धं प्रकल्पयेत् ॥ ७ ॥ कर्तव्या तत्र छाद्योवें घण्टा मन्दारपुष्पवत् । बराटश्च समाख्यातः कर्तव्यः सर्वदेवते ॥ ८॥ इति वराटः १॥ चतुर्धा भाजित छन्दे द्विभागो भद्रविस्तरः। निर्गतः पादपादेन सर्यभद्रेष्वयं विधिः ॥९॥ कणे भद्रेषु घण्टा च रूपे मन्दारपुष्पवत् । मध्योर्वे च बृहद्घण्टा पुष्पको नाम नामतः ॥ १०॥ . इति पुष्पकः २ ॥ चतुःपुष्पकसंघाट ऊधै घण्टा तु पञ्चमी । श्रीपुजोऽसौ समाख्यातः कर्तव्यः सर्वदैवते ॥ ११ ॥ इति श्रीपुजः ३॥ अधस्तादष्टसंघाट पुनः कुर्यात्तदूर्ध्वतः। तृतीया तु तदुर्वे च घण्टा मन्दारपुष्पवत् ॥ १२ ॥ पादहस्वोर्धभूमिश्च रसा: स्कन्धो दिशा अधः ? । सर्वतोभद्र आख्यातः कर्तव्यः सर्वदैवते ॥ १३ ॥ इति सर्वतोभद्रः ४॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy