SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ (१५८) पञ्चविंशतिलतिनप्रासादनिर्णयो नामाष्टपञ्चाश दुत्तरशततमं सूत्रम्॥ विश्वकर्मोवाच लतिनान् कथयिष्यामि प्रासादान रुचकादिकान् । नामानि रूपनिर्माणं कथयामि यथाविधि ॥१॥ रुचको भद्रकश्चैव हंसो हंसोद्भवस्तथा । प्रतिहंसस्तथा नन्दो नन्द्यावर्ती धराधरः॥२॥ वर्धमानो गिरिकूटः श्रीवत्सश्च त्रिकूटकः। मुक्तकोणो गजश्चैव गरुडः सिंह एव च ॥३॥ भवश्च विभवश्चैव पद्मो मालाधरस्तथा । वज्रकः स्वस्तिकः शङ्कर्मलयो मकरध्वजः ॥ ४॥ इत्येते च समुद्दिष्टाः प्रासादाः पञ्चविंशतिः । लक्षणेन च सम्युक्तान् कथयामि समासतः ॥५॥ रुचकाद्याः षोडशैव चतुरश्राः प्रकीर्तिताः । भवश्च विभवश्चैव चतुरश्रायती तथा ॥ ६॥ पद्मो मालाधरश्चैव वृत्तौ तौ चैव कारयेत् । वृत्तायतौ च कर्तव्यौ मलयो मकरध्वजः॥ ७ ॥ बज्रकः स्वस्तिकः शङ्करपाश्राः परिकीर्तिताः । तेषां च रूपनिर्माणं कथयामि समासतः॥ ८॥ चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते । भागा भागा तु भित्ती द्वे शेषं गर्भगृहं भवेत् ॥९॥ तदग्रतः पुनः कार्यों भागद्वयविनिर्गमः। विस्तारे तु त्रयो भागाः प्राग्ग्रीवः स्तम्भभूषितः ॥ १०॥ पीठोत्सेधश्च भागेन जङ्घा तत्र द्विभागतः।। बरवण्डयन्तरपत्रं च पादोनभागमश्नुते ।। ११ ॥ सार्धपञ्चांशतश्चैव पीठोच्छ्यं प्रकल्पयेत् । भागार्ध चैकभागं च भागं भागार्धमेव च ॥ १२ ॥ कुमुदं कलशं चैव कपोताल्यन्तरैः सह । अनेन क्रमयोगेन पीठोच्छ्रायं प्रकल्पयेत् ॥ १३ ॥ सपादचतुरंशाश्च उच्छ्राये शिखरस्य च । . चतुर्गुणैः पृथक्सूत्रः पद्मकोशं समालिखेत् ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy