SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ (१५६) वैराज्यप्रासादाभिधानं षट्पञ्चाशदुत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच-- चैराज्यादींस्ततो वक्ष्ये प्रासादाः पञ्चविंशतिः । चतुरश्रो भवेदेकरूयङ्गाश्च त्रय एव च ॥ १॥ भवन्ति पञ्च पञ्चाङ्गाः सप्ताङ्गान् सप्त कारयेत् । नवागाश्च नवाख्याता: प्रासादाः पञ्चविंशतिः ॥२॥ वैराजश्चतुरश्रश्च कर्तव्यो विधिपूर्वकम् । अधस्तान्नन्दनश्चैव सिंहः श्रीनन्दनस्तथा ॥ ३ ॥ व्यङ्गा इमे त्रयश्चैव कर्तव्याश्च सदा बुधैः । मन्दरो मलयश्चैव विमान: सुविशालकः ॥४॥ कर्णाक्षश्चेति पञ्चाङ्गाः प्रासादाश्च प्रकीर्तिताः । सप्ताङ्गान् कथयिष्यामि प्रासादान् सर्वकामदान् ॥ ५ ॥ शान्तिदान वै विघ्नहरान् शुद्धवंशसमुद्भवान् । महेन्द्रो रत्नशीर्षश्च शतशृङ्गोऽथ भूधरः ॥ ६॥ भुवनाद्यो मण्डनाख्यस्यैलोक्यविजयस्तथा। पृथ्वीवल्लभ एवं च सप्ताङ्गाश्च प्रकीर्तिताः ॥ ७ ॥ महीधरश्च कैलासो नवमङ्गल एव च । गन्धमादनसर्वाङ्गसुन्दरौतु तथैव च ॥ ८॥ विजयानन्दसर्वाङ्गतिलकावेवमेव च । महाभोगस्तथा मेरुर्नवाङ्गाः परिकीर्तिताः ॥९॥ वैराजाद्याः समाख्याता: प्रासादाः पञ्चविंशतिः । एतेषां रूपनिर्माणं कथयामि यथाविधि ॥ १० ॥ पते समतला क्षेयाः समनिगमनिर्गताः। समजाति समे सूत्रे शुद्धच्छन्दाः प्रकीर्तिताः ॥ ११ ॥ विभक्तिभिन्नच्छन्दानां भक्तिसूत्रानुनिर्गताः । गर्भसूत्रविनिर्गता गर्भा एवमनेकधाः ॥ १२॥ समाश्च विषमा; समविषमाश्च समासमाः । कार्यास्तथा समसमा तथा च विषमासमाः ॥ १३॥ विचित्राङ्गा विभक्ताश्च विचित्रसूत्रान्तर्गताः । विचित्रशिखराकीर्णा विचित्रपद्मपत्रकाः ॥ १४ ॥ (चित्रपद्मदलोद्भवाः) इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां वैराज्यप्रासादाभिधानाधिकारो नाम षट्पञ्चाशदुत्तरशततम सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy