SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ (१४७) सप्तप्रतिष्ठायज्ञमण्डपकुण्डविधिनिर्णयो नाम सप्तचत्वा रिंशदुत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच-- अथातः संप्रवक्ष्यामि प्रतिष्ठाविधिसतकम् । तेषां मन्त्रक्रियाश्चैव कथयामि समासतः॥१॥ आदी पादप्रतिष्ठा स्यात्तत्र कर्म च स्थापयेत् ।। शिलाप्रतिष्ठा द्वितिया पीठान्ते भित्तिमध्यतः ॥२॥ उदुम्बरस्ततीया च द्वारस्थापननामतः । पद्माकारा पद्मशिला प्रतिष्ठा सा चतुर्थिका ॥ ३ ॥ प्रासादे पञ्चमी चैवं पुरुषस्य निवेशनम् । षष्ठी च कलशारोपः प्रासादाने च यो भवेत् ॥ ४॥ महायझो महोत्साहो ध्वजानां तु समुच्छ्रयः। सा सप्तमी प्रतिष्ठा च प्रयुक्ता वास्तुवेदिभिः ॥ ५ ॥ इति पुण्याहसप्तकम् । भूम्यारम्भपदे कम शिलायां सूत्रपातने । खुरे द्वारोदये स्तम्भे पट्टे पद्मशिलासु च ॥ ६॥ शुकाने पुरुषे चैव घण्टायां कलशोच्छये । आख्यातानि ध्वजारोपे शान्तिकानि चतुर्दश ॥ ७ ॥ इति चतुर्दशशान्तिकानि । प्रासादादन ईशाने चोत्तरे यज्ञमण्डपम् । हस्तास्त्रयः पञ्चसप्तनवचैकादशाऽन्तरम् ॥ ८॥ त्रयोदश तथा हस्ताः षोडशाऽथ तथोत्तमम् । चतुरश्रं समं शुद्धं भुजकर्णविशोधितम् ॥९॥ तथा भित्तिपुटं कृत्वा नवांशां मध्यवेदिकाम् । षोडशस्तम्भसंयुक्तं चतुारोपशोभितम् ॥ १० ॥ तारज्यशोत्रता वेदी दर्शितोदरमस्तका। पृथक् च विदिते स्थाने मण्डलं च समुद्धरेत् ॥ ११ ॥ उदयार्धान्तरे वेद्याः करमानं च विस्तृतम् । कुण्डकानि तथा दिक्षु कर्तव्यानि क्रमेण तु ॥ २२॥ विताने पुण्यकलशा: पद्मपुष्पोपशोभिताः । विदिक्षु दिक्षु मध्ये च ध्वजामालाकुल तथा ॥ १३ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy