SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ (१३२) द्वारशाखाविभक्तिनिर्णयो नाम द्वात्रिंशदुत्तरशततम सूत्रम् ॥ विश्वकर्मोवाच चतुर्भागाडितं कृत्वा त्रिंशाख वर्तयेत्ततः । मध्ये द्विभागिकं कुर्यात् स्तम्भं पुरुषसंज्ञकम् ॥ १॥ स्त्रीसंझां च भवेच्छाखा पावयोः पृथुभागिका । निर्गमश्चैकभागेन रूपस्तम्भे प्रशस्यते ॥२॥ पट्टके विस्तर: कार्य: प्रवेशश्चतुरंशतः । कोणिका स्तम्भमध्ये तु भूषणार्थाय पार्श्वतः ॥ ३ ॥ शाखोत्सेधे चतुर्थीशे द्वारपालौ निवेशयेत् । कालिन्दी वामशाखायां दक्षिणे चैव जाह्नवी ॥४॥ गङ्गाऽर्कतनयायुग्ममुभयोर्वामदक्षिणे । गन्धर्वा निर्गमे कार्या एकभागा विचक्षणः ॥ ५ ॥ तत्सूत्रे खल्बशाखा व सिंहशाखा च भागिका । नन्दी च वामशाखायां कालो दक्षलताधितः॥६॥ यक्षाः स्युरन्तशाखायां निधिहस्ता: शुभोदयाः। इति त्रिशाखं सम्प्रोक्तं पञ्चशाखमतः शृणु ॥ ७ ॥ इति त्रिशाखद्वारम् ॥ शाखाविस्तारमानं च षडिभर्भागैर्विभाजयेत्। एकभागा भवेच्छाखा रूपस्तम्भो द्विभागिकः ॥ ८॥ निर्गमश्चैकभागेन रूपस्तम्भे प्रशस्यते। कोणिका स्तम्भमध्ये च उभयोर्वामदक्षिणे ॥९॥ गन्धर्वा निर्गमे कार्या एकभागा विचक्षणैः। तत्सूत्रे खल्वशाखा च सिंहशाखा च भागिका ॥ १० ॥ सपादः सार्धभागो वा रूपस्तम्भः प्रशस्यते । उत्सेधे चाऽष्टमांशेन शस्तं शाखोदरं मतम् ॥ ११॥ पत्रशाखा च गन्धर्वा रूपस्तम्भस्तृतीयकः। ' चतुर्थी खल्वशाखा च सिंहशाखा तत:परम् ॥ १२ ॥ पञ्चशाखमिति ख्यातं संक्षेपात् कथितं मया । इति पञ्चशाखद्वारम् ॥ सप्तशाखं प्रवक्ष्यामि शृणु त्वमपराजित ॥ १३ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy