SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ (१२१) आयतनदेवानुक्रमनिर्णयो नामैकविंशत्युत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच आयतनं गणादीनां देवतानां यथाविधि । अनुक्रमेण वक्ष्यामि यथोक्तं च पृथक् पृथक् ॥ १ ॥ वामे तु गजकर्ण त्र सिद्धिं दद्याच्च दक्षिणे । द्वौ पृष्ठकर्णयोश्चैव धूम्रको बालचन्द्रमाः ॥ २ ॥ उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्षराजस्तु बुद्धिः पूर्वे तु संस्थिता ॥ ३ ॥ इति गणपत्यायतनक्रमः ॥ वामे गणपतिश्चैव दक्षिणे पार्वती स्थिता | नर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ ४ ॥ मातुभ्यो मातृसंस्थानं दक्षिणस्यां हि कारयेत् । सौम्ये शान्तिगृहं कुर्यात् पश्चिमे जलशायिनम् ॥ ५ ॥ इत्येकद्वारशिवाय तनक्रमः ॥ वामे स्नानगृहं कुर्यात् सोमद्वारं तु दक्षिणे । मध्ये रुद्रः प्रतिष्ठाप्यो मातृस्थानं च दक्षिणे ॥ ६ ॥ चामे देवी महालक्ष्मीमुमां वै भैरवीं तथा । ब्रह्मविष्णू तथा रुद्रं पृष्ठदेशे तु कारयेत् ॥ ७ ॥ चन्द्रादित्यस्थितौ कर्णे ह्याग्नेय्यां स्कन्द एव च । ईशाने विघ्नराजस्तु धूम्रमीशानगोचरे ॥ ८ ॥ इति चतुर्मुखशिवायतनक्रमः ॥ आग्नेय्यां तु गणेशः स्यान्मातृस्थानं च दक्षिणे । नैर्ऋत्ये तु सहस्राक्षो जलशायी च वाहणे ॥ ९ ॥ उमाशङ्करौ वायव्ये ग्रहाश्चैवोत्तर स्थिताः । ईशाने तु धियादेवी प्राच्यां तु धरणीधरः ॥ १० ॥ इति ब्रह्मायतनक्रमः ॥ पूर्वे नारायणं देवं पुण्डरीकाक्षं दक्षिणे । पश्चिमे चैव गोविन्दमुत्तरे मधुसूदनम् ॥ ११ ॥ विष्णुं कुर्यात्तथेशाने चाग्नेय्यां तु जनार्दनम् । नैर्ऋत्ये पद्मनाभं च वायव्ये माधवं तथा ॥ १२ ॥ मध्ये तु केशवः स्थाप्यो वासुदेवस्तथोच्यते । संकर्षणश्च प्रद्युम्नो ह्यनिरुद्धो यथाक्रमम् ॥ १३ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy