SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ २६८ प्रासादचतुर्दशजातिलक्षणाकारो नाम षडुत्तरशततमं सूत्रम् ।। भूमिजा भूमिकाक्रमै चाहीनैश्च भूमिकैः । शृङ्गे शृङ्गयुता: कार्या बहुशृङ्गसमाकुलाः ॥ ३० ॥ कणे प्रतिरथे चैव भद्रे च प्रतिभद्रके । मन्दारपुष्पिका घण्टा वराटा: शुभलक्षणाः ॥ ३१॥ इति वराटाः ।। भूमिजच्छन्दकाख्यातास्तलैश्च चतुरचकाः। रथोपरथभद्रा वै विमाना; सर्वकामदाः ॥ ३२॥ इति विमाना॥ नागरच्छन्दकाख्यातास्तिलकैः स्युरनेकधा। मिश्रका मिश्रजाताश्च कर्तब्यास्तिलकाडिताः ॥ ३३ ॥ इति मिश्रकाः॥ तलच्छन्दविभक्ताश्च गर्भभित्तिभ्रमन्तिकाः। भ्रमणीक्रमयोगेन सान्धारा: शिखरैर्युताः ॥ ३४॥ इति सान्धाराः॥ नागरोर्ध्वच्छन्दयुक्ता लताशृङ्गैः समन्विताः । विमाननागरच्छन्दाः प्रोक्तास्तेजस्समुद्भवाः ॥ ३५॥ इति विमाननागराः॥ विमाननागरच्छन्दे उरःशङ्गे तु पुष्पकम् । विमानपुष्पकच्छन्दाः कर्तव्याः सर्वकामदाः ॥ ३६॥ इति विमानपुष्पकाः ॥ आयतच्छन्दकाः कार्या अघण्टो भूमिकाक्रमः । गजपृष्ठाकृतिकुटी बलभी सर्वकामदा ॥ ३७ ॥ इति वलभी॥ दलविभक्तिभद्राठ्या उदकान्तरवर्जिताः। फांसनाकारिणस्तूचे कर्तव्यास्तु नपुंसकाः ॥ ३८ ॥ इति नपुंसकाः॥ छाद्यछाद्योद्भवा ऊर्ध्वं सिंहकर्णैर्विभूषिताः। घण्टा घण्टाकृर्ति कुर्यादित्य सिंहावलोकनाः ॥ ३९ ॥ इति सिंहावलोकनाः ।। शकटोपरि कर्तव्याश्छन्दै नागरोद्भवैः । त्रिचक्रं चैव शकटं कामदास्ते रथाभिधाः॥४०॥ इति रथारुहाः ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy