SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ (९९) गृहसंयोजननिर्णयो नाम नवनवतितमं सूत्रम् ॥ विश्वकर्मोवाच कथये गृहसंयोगाश्चतु:शालात्परे प्रमात् । एकशालं चतुःशाले संयुक्तं पञ्चशालकम् ॥ १॥ युक्तं द्विशालं त्रिशाले पञ्चशालं तदिग्यते । द्विशालद्विकयुक्तैकशालं स्यात्पश्चशालकम् ॥ २॥ एकशालद्वये युक्तं त्रिशालं पञ्चशालकम् । पञ्चकं चैकशालानामन्यत्तत्पश्चशालकम् ॥ ३॥ इतिपञ्चशालं गृहम् ॥ एकशालं विशालं च षट्शालं स्यात्रिशालके । त्रिशालद्वयसंयोगात् षट्शालं चैव तद्भवेत् ॥४॥ द्विशालत्रयसंयोगे षट्शालं तद् विधीयते । द्विशालद्वितयं चैकशालयुग्मं षट्शालकम् ॥ ५॥ एकशालानि चत्वारि द्विशालेच षड्भद्रकम् । एकशालत्रयं योज्यं त्रिशाले च षड्भद्रकम् ॥ ६॥ दिशालयुक्चतुःशालं षड्भद्रं तद्भवेत्खलु । चतुःशालं चैकशालद्वयं षड्भद्रकं स्मृतम् ॥ ७ ॥ योजयेदेकशालानि षट् षट्शालं तदुच्यते । पञ्चशालं च षट्शालं कथितं त्वपराजित ॥ ८॥ इति षट्शालम् ।। त्रिशालद्वितयं कुर्यादेकशालं तथैव च । सप्तशालं तु तज्ज्ञेयमधुना कथितं शुभम् ॥ ९॥ द्विशालत्रितयं युक्तमेकं वै चैकशालकम् । सप्तशालं सुसङ्ख्यातं वास्तुविद्भिरुदाहृतम् ॥ १० ॥ द्विशालद्वितयं योज्यं त्रिशाले सप्तभद्रकम् । चतुःशाले विशालं च तद्भवेत् सप्तभद्रकम् ।। ११॥ एकशालं द्विशालं चतुःशाले सप्तभद्रकम् । त्रिशालद्वितयं चैकशालं तत्सप्तशालकम् ॥ १२॥ चतुःशालं त्रिभिरेकशालैस्तत्सप्तशालकम् । एकशालानि चत्वारि त्रिशाले सप्तभद्रकम् ॥ १३ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy