SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ २४२ अपराजित पृच्छा ' I कोटरं त्रिचतुर्थीभ्यां स्वामिनो विग्रहावहम्। प्रथमा द्वितृतीयाभिर्विग्रहं वधबन्धकृत् ॥ १७ ॥ आद्याद्वितीयातुर्याभिर्निग्रहं विग्रद्दावद्दम् । आद्यातृतीयातुर्याभिर्धूनं सर्वधनापहम् ॥ १८ ॥ द्वितृतीयाचतुर्थीभिर्निर्धूमं धननाशनम् । आद्याद्याभिश्चतसृभिर्दन्ति दारुणमर्थहृत् ॥ १९ ॥ आद्याद्वितीयामूषाभ्यां वातभेदेषु मन्दिरम् । मरुत्संज्ञं भवेत्तत्र वसतां कलहः सदा ॥ २० ॥ उद्वेगकारि पवनं तृतीयाद्योपलक्षितम् । वाताख्यं द्वितृतीयाभ्यां सदासन्तापकारकम् ॥ २१ ॥ सन्तापोद्वासकार्याद्यातुर्याभ्यामलिनं भवेत् । प्रभञ्जनं द्वितुर्याभ्यां शोकसन्तापकारकम् ॥ २२ ॥ घनाख्यं मोदविध्वंसि चतुर्थ्यां च तृतीयया । आद्यया द्वितीयाभ्यां रोगं कार्यार्थनाशनम् ॥ २३ ॥ आद्याद्वितीयातुर्याभिः प्रलयं चित्ततापकृत् । आद्य तृतीयातुर्याभिः कलहं कलहावहम् ॥ २४ ॥ द्वितृतीयाचतुर्थीभिः कलि सन्तापकारकम् । आद्याद्याभिश्चतसृभिः कलिशूलं धनापहम् ॥ २५ ॥ रोगमाद्याद्वितीयाभ्यां चुल्लीभेदेषु शोकदम् । स्याद् द्वितीयातृतीयाभ्यां चुल्ली वित्तविनाशनी ॥ २६ ॥ वसुघ्नमनलं नाम त्रितुर्याभ्यां निवेशनम् । वित्तघ्नमाधातुर्थाभ्यां भस्माख्यं स्वामिनः सदा ॥ २७ ॥ उदङ्मुखाभ्यां मूषाभ्यां काचभेदेषु मन्दिरम् | छलं नाम भवेन्नित्यं बन्धुवर्गापमानकृत् ॥ २८ ॥ दक्षिणोत्तरमुपाभ्यां पौरस्ते वहतो यदि । काचं नाम तदा वेश्म सज्जनानन्दकारकम् ॥ २९ ॥ भूषाभ्यां दक्षिणाभ्यां स्यात्कुलई त्रिकुलक्षयम् । दक्षिणोत्तरमूषाभ्यां पाश्चात्य वहतो यदि ॥ ३० ॥ विरोधं नाम तद्वेश्म सर्वलोकविरोधकृत् । उक्तान्येवं द्विपञ्चाशद् द्विशालानि समासतः ॥ ३१ ॥ मूषावहन भेदास्तु द्विशालानां यथाक्रमम् । निदर्शिता वेश्मनां च त्रिशालं सूत्र गद्यते ॥ ३२ ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्त पराजितपृच्छायां द्विशालगृहलक्षणक्रमाधिकारो नाम पञ्चनवतितमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy