SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ (९१) चतुरुत्तरशतैशालगृहलक्षणमेकनवतितमं सूत्रम् ॥ विश्वकर्मोवाच- हर्म्यादीनि प्रवक्ष्यामि यथोक्तं पुरवासिनाम् । निन्दितानि च शस्तानि भवन्ति भवनानि ॥ १ ॥ पञ्च पूर्वायता रेखा दशसप्त च दक्षिणे । चतुःषष्टिपदं कार्य कोष्ठकं पूर्वदक्षिणम् ॥ २ ॥ चत्वारो विन्यसेत्पूर्वमक्षराणि गुरुणि वै । तेभ्य एव प्रसूयन्ते भेदाः षोडश चेश्मनाम् ॥ ३ ॥ गुगेरो लघु दद्याद् विद्याद्गुरुलघुप्रदम् । एकान्तरविभेदेन षोडशैव पदाः स्थिताः ॥ ४ ॥ पदपक्षस्य संस्थाने द्वितीयं परिकीर्तितम् | चतुरक्षरभेदेन तृतीयं च तथोपरि ? ॥ ५ ॥ अशभिः क्रमभेदैश्च चतुर्थे शुभलक्षणम् । एको मात्रिको लघु गुरुद्धक प्रतिष्ठिताः ? ॥ ६ ॥ एकशाला गुरुव्याप्ता चालिन्दो लघुस्थानके । ear गृहे मृषादलिन्दश्चेति निश्चये ॥ ७॥ पूर्वे वै कथितन्दो गुरु लघुश्च ? समावृते । प्रभेदांश्च तन्नामानि कथयाम्यपराजित ॥ ८ ॥ ध्रुवं धान्यं जयं नन्दं खरं कान्तं मनोरमम् । सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥ ९ ॥ आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम् । अलिन्दभेदाः कथिता ध्रुवादीनां तु षोडश ॥ १० ॥ ध्रुवे जयोति धान्ये धान्यागमो भवेत् । जये सपत्नाञ् जयति नन्दे सर्वाः समृद्धयः ॥ ११ ॥ खरमायासदं वेश्म कान्ते च लभते श्रियम् । आयुरारोग्यमैश्वर्य तथा चेप्सित संपदः ॥ १२ ॥ मनोरमे मनस्तुष्टिर्गृहभर्तुः प्रकीर्तिता । सन्मुखे राज्य सन्मानं दुर्मुखे कलहः सदा ॥ १३ ॥ क्रूरे व्याधिभयं घोरं सुपक्षं गोत्रवृध्धिदम् । धनदे हेमरत्नानि गाचैव लभते पुमान् ॥ १४॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy