SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ महाराजाधिराजा नामाष्टसप्ततितमं सूत्रम् ॥ सभामध्ये समायातः स्थितः सिंहासने तथा । सर्वावसरकं तत्र प्रवृत्तं जनसंकुलम् ॥ ३१ ॥ द्वादशदण्डनायकाः प्रतीहारद्धयी तथा । अमात्यराजकरणा: श्रीकरणा वयस्कराः ॥ ३२॥ चत्वारो मण्डलेशाश्च मण्डलीकाश्च द्वादश। महासामन्ता द्विरष्ट सामन्ताश्च युगाष्टकाः ॥ ३३ ॥ लघवः षष्टयुत्तरं चतुःशतं चतुरंशिकाः । शेषास्तु राजपुत्राश्च असङ्ख्यातास्तथैव च ॥ ३४ ॥ स्वर्णालङ्कारखचितर्नैकरत्नस्तु सङ्कलैः । दिव्यशृङ्गारकैः सर्वे महाराजप्रत्यात्मिकाः ॥ ३५ ॥ गजाः शृङ्गारयुक्ताश्च आनीतास्तु महोत्कटाः। युध्यमानास्तथा कुर्यान्नवांश्च मारणे रतान् ॥ ३६॥ गजोद्भवा तत्र माता अश्वमाता संधोद्गमैः १ । परराष्ट्रोद्भवा ये च समये तत्र दर्शयेत् ॥ ३७ ॥ तस्यां ? मनोभव: कम्प: स्वराज्यं च स्वर्गात्पतिः । लघुराष्ट्रोद्भवा ये च प्रसङ्गे दर्शयेदपि ॥ ३८ ॥ महाराजाधिराजश्च परमेश्वरसंशितः। भुवनैकनाथो महाराजचक्रचूडामणिः ॥ ३९ ॥ भपालः सर्वकलाकुशल: उमापतिवरलब्धप्रतापतेजाः । तथाऽन्यनृपाद्यमुखदर्पणो धर्मादिप्रशस्यावतारः ॥ ४० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां महाराजाधिराजाधिकारो नामाष्टसप्ततितमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy