SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ महाराजनिवेशोनाम पट्सप्ततितमं सूत्रम् ॥ बुधे यमे च गन्धर्वे तद्रूपा च द्वितीयका । शोषे क्षये च रोगे च कोष्टागारं तथादिमम् ॥ ३२ ॥ पित्रिमृगभृङ्गेषु च कोष्ठागारं द्वितीयकम् । गोष्ठागारं कार्यमित्थं प्रोतं च विश्वकर्मणा ॥ ३३ ॥ ईशादितिदितिषु च भाण्डागारमा पार्धतः । पुष्पागारं सवित्र हानौ भृत्यान्तरिक्षयोः ॥ ३४ ॥ तृणशाला प्रकर्तव्या प्रशस्ता शुभकर्मणा । पर्जन्ये चाधिकरणं राज्ञः कार्य परामुखम् ॥ ३५ ॥ शुभा प्रतोली माहेन्द्रे जये श्रीकरणादिकम् । आदित्येवप्रकरणं सन्मुखं श्रीकरादिषु ॥ ३६ ॥ धर्माधिकरणं सत्ये कर्तव्यं चापराङ्गुखम् । कर्णो भूमिकाचैव तदप्रार्थे चतुष्किका ॥ ३७ ॥ जयस्य बाह्यपक्षे तु कुर्यात् कारागृहं तथा । कात्यायनी च माहेन्द्रे प्रतोल्याः पुरतबधुः ? ॥ ३८ ॥ आदित्यात्रे च बाह्ये तु कुर्याद् द्वयकरणाद्यकम् ? | रूपकं दुःसाध्यकानां चतुष्कं तु राजादिकम् ? ॥ ३९ ॥ मरीचिस्थ गर्भोत्तरे देवी राजकुलार्चिता । पृथ्वीजय ख्यः प्रासादस्तेजः प्रतापवर्धकः ॥ ४० ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां महाराजनिवेशाधिकारो नाम षट्सप्ततितमं सूत्रम् ॥ १९१
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy