SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ (७४) वापीकूपतडागादिनिर्णयो नाम चतुःसप्ततितमं सूत्रम् ॥ विश्वकर्मोवाच पुरस्य बाह्याभ्यन्तरे विविधाः स्युर्जलाशयाः। वापीकूपतडागानि कुण्डानि विविधानि च ॥१॥ दश कूपाश्चतुर्वाप्यश्चत्वारि कुण्डकानि च । तडागाः षड्विधाश्चैवं कथयाम्यपराजित ॥२॥ श्रीमुखो विजयः प्रान्तो दुन्दुभिश्च मनोहरः । चूडामणिश्च दिग्भद्रो जयो नन्दश्च शङ्करः ॥ ३॥ चतुर्हस्तादितो वृद्धिर्यावद्धस्तस्त्रयोदशम् । श्रीमुखाद्याः शङ्करान्ता दश कूपाः प्रकीर्तिताः ॥४॥ चतुर्हस्तः श्रीमुखः स्याद् विजयः पञ्चहस्तकः । षद्धिहस्तैर्भवेत् प्रान्तो दुन्दुभिः सप्तहस्तकः ॥ ५॥ मनोहरश्चाटहस्तश्चडामणिनवकरः। दिग्भद्रो दशहस्तश्च होकादशकरो जयः॥६॥ नन्दे च द्वादशकराः शङ्करे च त्रयोदश। एवमादिगुणोपेता वृत्तकूपा दशोत्तमाः ॥७॥ शेषास्तु कूपिका वत्स त्रिहस्ताश्चादिमाद्धः । द्विहस्ता वै प्रशस्ताश्च कर्तव्याः सर्वकामदाः ॥ ८॥ इति दशकूपाः ॥ नन्दा भद्रा जया चैव चतुर्थी विजया तथा। एकवक्त्रा त्रिकूटा च नन्दा नाम वरप्रदा ।। ९॥ द्विवत्रा च षट्कूटा भद्रा नाम सुशोभिता । त्रिवक्ता नवकूटा च जया वै देवदुर्लभा ॥ १० ॥ चतुर्वक्त्रा सूर्यकूटा विजया सर्वतोमुखी । वाप्यश्च कथिता वत्स कुण्डानि शणु सम्प्रति ॥ ११॥ इति चतुर्वाप्यः॥ भद्रकं सुभद्रकं च नन्दाख्यं परिघं तथा। कुण्डानि देवताग्रेषु कार्याणि शान्तिमिच्छता ॥ १२ ॥ चतुरनं भद्रकं स्यात् सुभद्रं भद्रसंयुतम् । नन्दाख्यं प्रतिभद्रेषु परिघं मध्यभिट्टकम् ॥ १३ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy