SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ (७२) महाराजाधिराजपुरनिवेशो नाम द्वासप्ततितमं सूत्रम् ॥ विश्वकर्मोवाच चतुर्भिस्तु सहनैश्च कनिष्ठं विस्तृतं पुरम् । मध्यमं चाष्टसाहनम् हस्तानां मानतः स्मृतम् ॥१॥ द्वयष्टसाहस्रहस्तं च व्यासे ज्येष्ठं पुरं मतम् । चतुरष्टद्विर; वा त्रिविधं चोदितं क्रमात् ॥२॥ कनिष्ठज्येष्ठयोर्मध्ये सहस्रवृद्धथैकादश । चतुर्धापुनरेकैकं कनिष्ठ मध्यमुत्तमम् ॥ ३ ॥ साटमांशं सपादं वा सार्द्ध वास्तु समायतम् । कुर्यादेकैकमिदं च चतुरश्रीकृतं शुभम् ॥ ४॥ वेदानं वेदभक्तं च वेदापर नृपवेश्मने ?। समस्तनृपगेहानां वेदवत् संस्थिता स्थितिः ॥५॥ एकस्यां द्वित्रिभिर्वशास्त्रिधा पञ्चपदान्तगाः । प्रसिद्ध राजमार्गाच षट् पन्थानो नवांशकाः ॥ ६॥ इत्यनुक्रमवंशाश्च यानमार्गप्रभेदतः। पुरान्तेषु समस्तेषु घण्टामार्गप्रसिद्धितः १ ॥ ७ ॥ सूर्यषोडशविंशत्यः प्राकारो त्रिधोदितम् । द्वादशाष्टौ दश वापि प्राकारस्कन्धविस्तृतिः ॥ ८॥ सप्तादशकरोच्छ्तिा प्रासादं ? विहीनाधिकम् ।। द्विकराधिकर्मध्यं च वोच्छ्तिा कण्डवारणी ॥९॥ कण्डवारणी स्थिता च पृथूदये च शिरोवापि । धनानि कपिशीर्षाणि ह्यष्टाङ्गुल्यन्तराणि च ॥ १० ॥ प्राकारान्ते रथाः कार्या दिग्भास्वच्छकविस्तरः । चत्वारिंशत्रिंशमध्यं शाश्वतं च रथान्तरम् ॥ ११ ॥ उत्संगः पूर्णबाहुश्व हीनबाहुस्तथापरः। प्रतिकायमिति प्रोक्तं प्रवेशानां चतुष्टयम् ॥ १२ ॥ आनन्दश्च तथोत्कण्ठो जयन्तो रिपुमर्दनः । कर्णालयश्च चत्वारो वृत्ताकारेण संस्थिताः ॥ १३ ॥ सिंहावलोकनाश्चैव योधविद्याधरीयकाः । पकान्तरप्रभेदेन क्रमेणापि सुसंस्थिता ॥ १४॥ २३ अ.
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy