SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ (७१) हेमकटाख्यनगरप्रमाणमेकसप्ततितमं सूत्रम् ॥ अपराजित उवाच चित्रकूटत्रिकूटादिनगराणां च सर्वशः। प्रमाणं गुणदोषांश्च कथयस्व प्रसादतः ।। १॥ गृहाश्च कतिः सङ्ख्याता मार्गाश्च कतिधा स्मृताः। श्रेष्टा वा निन्दिता वाथ प्रतोलीपरिखादिकाः ॥२॥ कतिः स्थानानि देवानां कतिदेवाश्च संस्थिताः। एतत्सर्व प्रयत्नेन तथा जनपहादिकम् ॥ ३॥ भोगाय भूमिपालानां भोगिनां चैव सर्वदा । विश्रामो वनितानां च यथा चन्द्रपुरी तथा ॥ ४ ॥ विश्वकर्मोवाच अथातः सम्प्रवक्ष्यामि नगराणां च लक्षणम् । हेमकूटाभिधानं चायश्रुत भुवनत्रये ॥५॥ चतुरथं समं कृत्वा भुजकर्णविशोधितम् । भाजयेद् द्वादशांशर्वा न्यूनाधिकपदैस्तथा ॥ ६॥ ब्रह्मस्थानेषु संगृह्य ह्येकांशं वामदक्षिणम् । द्विधा तथा पुनस्त्रीणि द्वे द्वे त्रीणि द्वयं तथा ॥ ७ ॥ इन्द्रयाम्यापरसौम्ये विभज्य पदसङ्ख्यया । जायन्ते तत्र समानि ख्यातानि वसुधातले ॥ ८॥ निवसन्ति च सीमान्ते चतुर्वर्णा यथाक्रमम् । द्वादशाथमार्गाश्च द्वौ त्रयः समनां तथा ॥९॥ अन्तरे कर्णभुजयोमार्गसङ्ख्या त्रयोदश । सामानं समाख्यातं चत्वारिंशत्सहस्रकम् ॥ १० ॥ ब्रह्मरन्धप्रमाणं च शतमष्टोत्तरं शुभम् । कर्णगर्भान् विजानीयाच्छतमष्टोत्तरं मतम् ॥ ११ ।। चतुर्वक्त्रं महापद्म प्रासादं सुरवल्लभम् । स्थापयेद ब्रह्मकेन्द्रेच ब्रह्माणं तु पितामहम् ॥ १२।। चत्वारः कर्णप्रासादाः कर्णगर्भे च संस्थिताः । आयान्तस्तु व्ययं कुर्यात् क्षेत्रमानानुसारतः ॥ १३ ।। हस्तसङ्ख्याप्रमाणं च शतानां दशपञ्चतः । वेश्म सङ्ख्याप्रमाणं च सार्धसप्तशतानि च ।। १४ ॥ प्रासादोपस्करं सर्च प्रतोल्यादिसमन्वितम् । कीर्तिस्तम्भादिकं चैव कथितं पूर्वमेव हि ॥ १५॥ इति हेमकूटनगराभिधानम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy