SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ देवासुर संग्रामादिवास्तूद्भवो नाम त्रिपञ्चाशं सूत्रम् ॥ देवराजः सुरैर्युक्तः समुपास्ते जगत्पतिम् । दुर्निरीक्ष्यं दुराराध्यं कालानलसमप्रभम् ॥ ३१ ॥ दृष्ट्वाद्भुतरूपं च विरञ्चिरपि विस्मितः । दुर्जयं दुर्निरीक्ष्यं च महाघोरं सुदारुणम् ॥ ३२ ॥ स्फुरन्तं विद्युदाकारं लोचनैरपि सन्निभैः । भूः कान्ता पादतलतो ब्रह्मलोकं गतं शिरः ॥ ३३ ॥ तस्य रूपभयाद् भीताः त्रिदशासुरराक्षसाः । नश्च ऋत्विजो ब्रह्मा शक्राद्या द्वारपालकाः ॥ ३४ ॥ तत्र देवा द्विजा राजा आश्रयन्ति महेश्वरम् । रक्ष रक्ष महादेव भयभीतान् जगत्प्रभो ॥ ३५ ॥ महद्भूतं मर्त्यलोके यज्ञे च रिपुक्रोधजम् । सुरराजद्विजानां च भूमौ रक्षाकरो भवान् ॥ ३६ ॥ प्रत्यक्षं भव ईशान सुरार्थे द्विजभूपते । महद्भूतं महादेवं दैत्यानां दहनं परम् ॥ ३७ ॥ ललाटनेत्र क्रुद्धं कालरूपमिवापरम् । वलोकितो भवो भद्रे असाध्ये वृद्धतांगतः ॥ ३८ ॥ मूलकल्पोद्भवं यत्र निग्राह्यमस्तकोभवम् । वलोकितं तदा चकं त्रिषु लोकेषु मध्यतः । लीयते शिवदेहे तु यत्र स्यात्सुरसम्भवः ॥ ३९ ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायां देवासुर संग्रामादित्रास्तूद्भवाधिकारो नाम त्रिपञ्चाशं सूत्रम् ॥ १२९
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy