SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ (२२) पञ्चलिङ्गोद्भवकाश्यपसृष्टयुद्भवो नाम द्वाविंशं सूत्रम् ॥ अपराजित उवाच - कथं लिङ्गभवा सृष्टिः समस्ता सचराचरा । कथं ब्रह्मोद्भवा चैव कथयस्व प्रसादतः ॥ १ ॥ ब्रह्माद्यप्रभवाः के चाक्षयलिङ्गोद्भवाच के । केच ज्योतिर्भवाश्चैव कथयस्व प्रसादतः ॥ २ ॥ विश्वकर्मोवाच एकादशकोटिरुद्रा भैरवाश्चाष्टकोटयः । योगिन्यो द्विरद कोट्यो लिङ्गेभ्यश्च समुत्थिताः ॥ ३ ॥ खेचरी भूचरी विद्या स्तम्भिनी मोहिनी तथा । विद्वेषिणी त्रोटनी च एता लिङ्गसमुद्भवाः ॥ ४ ॥ अणिमा लघिमा क्याता महिमा सहजा तथा । अष्टसिद्धयुद्भवा विद्याक्षय लिङ्गसमुद्भवा ॥ ५ ॥ मन्त्रमुद्राः समस्ताश्च योगिनोयोगनिर्मलाः । अची पूजा प्रतिष्ठाश्च सर्वा लिङ्गसमुद्भवाः ॥ ६ ॥ वेदागमपुराणानि ग्रन्थादिदर्शनानि च । अक्षयलिङ्गोत्पन्नानि तथान्यश्च वदामि ते ॥ ७ ॥ निघण्टुर्व्याकरणानि ह्यष्टौ स्थानानि वै तथा । वेदोद्भवश्च लिङ्गेभ्यस्तथान्ये च दिवौकसः ॥ ८ ॥ सप्तस्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः । एकोनपञ्चाशत्तानाः सर्वे लिङ्गसमुद्भवाः ॥ ९ ॥ सर्वाणि यानि तीर्थानि युद्भवन्तीह भूतले । तान्युत्पन्नानि लिङ्गेभ्यो वर्तन्ते सचराचरम् ॥ १० ॥ मन्त्रसिद्धिक्रियायोग - तीर्थधर्मसत्यानृतम् । पृथिव्यापस्तथा तेजो वायुराकाश एव च ॥ ११ ॥ लिङ्गोद्भवानि चैतानि जगदुश्पत्तिकारणम् । सर्वात्मलीला भूतानां लिङ्गानां लिङ्गतो भवः ॥ १२ ॥ क्षेत्राणि च तथा द्वीपाः संसारसृष्टिकोद्भवाः । एवमक्षयलिङ्गेभ्यः सर्वभूतालयस्तथा ॥ १३ ॥ शेषोद्भवास्तथा पुत्र जीवा वै काश्यपादयः । मानसेभ्यः समुत्पन्ना मानस्याः पुत्रिकादयः ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy