SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ (७) सृष्टिसंसारावतारणं सप्तमं सूत्रम् ॥ अपराजित उवाच - मूर्धजास्तृणधान्यानि वृक्षाश्चैवमनेकधाः । तदुत्पत्तिः कथं नाम (ध) पशुपक्षिशरीरिणाम् ॥ १ ॥ कृमिकीटपतङ्गाश्च ये च जीवानुरूपकाः । कथयस्व प्रसादेन संसारे सृष्टिसम्भवाः ॥ २ ॥ विश्वकर्मोवाच काश्यपस्य हृदुत्पन्ना मानस्यः पञ्च कन्यकाः । तदुत्पन्ना च या सृष्टिः कथये तां च साम्प्रतम् ॥ ३ ॥ अभ्वी गजी नखी चैव शृङ्गी शुकी तु पञ्चमी । पृथगेकैकसम्भूर्ति कथयामि यथाश्रुतम् ॥ ४ ॥ वृक्षा चैवाम्बुकी जाता आम्बुकाः पञ्चमूर्धजाः । अम्बो जम्बूस्तथाऽश्वत्थ चटचोदुम्बरस्तथा ॥ ५ ॥ आम्बकात् सरलो जातस्तस्यैव सप्तपुत्रिकाः । ताली चैव तदुद्भूताः तमालतालवृक्षकाः ॥ ६ ॥ धान्यकी व तृणी चैव व्याख्याताः सप्तपुत्रिकाः । शाली च व्यन्तरी चैव लता चैवौषधिस्तथा ॥ ७ ॥ व्यन्तर्याश्च समुद्भूता 'व्यन्तराश्चैव " मूर्धजाः " ? | लताचैव लतोद्भूताः शैलाद्यं भूतले यथा ॥ ८ ॥ औषभ्यश्वौषधीजात। लक्षाणि वै समुद्भवाः । धान्यकी धान्यसम्भूतिः संख्याताष्टादशात्मिका ॥ ९ ॥ तृण्यास्तृणानि जातानि चतुरशीतिः सङ्ख्यया । तृणानां दुर्विकादीनां समस्तानां ततो भवः ॥ १० ॥ शृङ्ग्याश्चैव प्रवक्ष्यामि मानसी: सप्तपुत्रिकाः । वृषी महिषी मेषी च ाजा मृगी च शम्बरी ॥ ११ ॥ गण्डकी सप्तमी जाता गण्डक्याश्चैकशृङ्गकाः । शम्बर्याः शम्बरा जाता मृग्या चैवं मृगा मताः ॥ १२ ॥ मेष्या मेषाः समुत्पन्नास्तथाजाया अजोद्भवः । वृष्या वृषाश्च संजाता महिष्या महिषोद्भवः ॥ १३ ॥ पुत्रिकाचैव शुक्यास्तु शतान्यष्टौ द्विधाश्च ताः । विहङ्गाश्च समस्तास्तु ह्यण्डजाः पक्षिणस्तथा ॥ १४ ॥ 3 A. P.
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy