SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः॥ श्रीभुवनदेवाचार्योक्ता सूत्रसन्तानगुणकीर्तिप्रकाशापरनामधेया अपराजितपृच्छा॥ (१) गन्धमादनो नाम प्रथमं सूत्रम् ॥ अभीप्सितार्थसिद्धयर्थ पूजितो यः सुरैरपि । सर्वविन्नच्छिदे तस्मै गणाधिपतये नमः ॥ १॥ चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥२॥ अथ श्रीहिमान्तभागे पर्वते गन्धमादने । विचित्रशिखराकीणे चित्रस्फटिकशोभने ॥ ३॥ चन्द्रकान्तशिलारम्ये सेव्यामृतनिवासिने ।। सिद्धामरकन्याकीणे क्रीडामणिगुहागृहे ॥४॥ हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते । नीलजीमूतसंकाशे तरुणादित्यसप्रभे ॥५॥ उच्छ्रयाकाशशिखरे रत्नधातृपशोभिते । अनन्तगह्वरै रम्ये यथाख्यातात्य[]हासके ॥ ६ ॥ महाद्रमलताकीणे वनोपवनकानने । दिव्यासनसभारम्ये सरितां तटवासिते ॥ ७॥ इदं वै आश्रमं रम्यं पर्वते गन्धमादने । भूर्भुवनेश्वरं देवं तच्छिलापृष्ठशायिनम् ॥ ८॥ नाद्गमैगस्थैश्च सुद्रुमैः समलङ्कृतम् । अनाश्रयाम्बुपतितं महानगशिखोस्थितम् ॥ ९॥ तच्च शैलशिखोद्भूतं प्रस्थितं सागरावधि । शोभितं भिल्लशबरैर्भूतं स्यच्छरपुग्वजम् ॥ १० ॥ गङ्गासरस्वती पुण्या देवका (वेदिका) मधुमती तथा । पारा सिन्धुश्च कावेरी गोमती चन्द्रतारका ॥ ११ ॥ मजन्मातङ्गगण्डच्युतमदमदिरामोदमत्तालिमाल स्नानैः सिद्धाङ्गनानां कुचथुगविगलत्कुङ्कुमासङ्गपिङ्गम् । सायं प्रातर्मुनीनां कुशकुसुमचयच्छिन्नतीरस्थनीरं । पायान्नो गाङ्गमम्भः करिमकरकराक्रान्तरंहस्तरङ्गम् ॥ १२ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy