SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अपमं नवतालम्] अथ दशमोऽध्यायः। अथाधर्म नपतालम् । उष्णीषोच्चं शिवांशं स्यात् केशं सार्धद्विभागया । केशान्तान्नेत्रसूत्रान्तं पादोनचतुरंशकम् ॥ १ ॥ तथैव तस्मान्नासान्तं तथा तदनुसीमकम् । साधलोकागुलं ग्रीवातुङ्गमानं ततः पुनः ॥ २ ॥ हृदयान्तं ततो नाभिसीमान्तं च ततः पुनः। मेदान्तं च पृथक् पादयुक्तरुद्रांशमानकम् ॥ ३ ॥ ऊरुदीर्घ तथा?नत्रयोविंशांशकं स्मृतम् । गलतुङ्गसमं जानु जङ्घामूरुवदाचरेत् ॥ ४ ॥ गुल्फमानं तु सार्धाग्निभागमेव विधीयते । बाह्वोश्वोरुसमं दीर्घ प्रकोष्ठं षोडशाङ्गुलम् ॥५॥ तलदीर्घ तु भूतांशं तत्समं मध्यमाङ्गुलम् । शेषे युक्त्या सुकर्तव्यमुत्तमाधुक्तवर्मना ॥ ६ ॥ इति शिल्परत्ने उत्तरभागे अधमनवतालविधिर्नाम दशमोऽध्यायः ॥ अथैकादशोऽध्यायः । अथाष्टतालोत्तमम् । उष्णीषोच्चं शिवांशं स्यात् केशं सार्धद्विभागतः । पादोनरुद्रभागं स्यात् केशान्तानुसीमकम् ॥ १॥ केशान्तादक्षिसूत्रान्तं तत्रिभागैकमानतः । तथैव च पुटान्तं तु शेषं तदनुसीमकम् ॥ २ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy