SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ शिल्परले उत्तरमागः मूलादिवेदशरसाद्धिरसाङ्गसंख्यै___ासोऽङ्गुलैः पदतलेऽर्कमितैश्च दैर्घ्यम् । अगुष्ठसीम्नि कलयोन्नतिरर्धतोऽन्य पार्थेऽगुलैः प्रपदैर्ध्यमृतुप्रमाणैः ।। १७ ॥ अङ्गुष्ठतत्सहभुवोर्जगदगुलाढ्यं दैय नखान्नखमितिसितास्ततोऽन्याः । पर्वत्रयाहितरुचोऽङ्गलयो द्विपर्वा गुष्ठोऽर्धपर्वशशिखण्डनिभा नखाः स्युः ॥ १८ ॥ अङ्गुष्ठके रसमितैः परिधिः परस्यां स्यादङ्गुलैस्त्रिभिरथाष्टमभागहीनैः ।। कार्यः ऋमात् तदित(रेष्व ? रास्व)खिलेषु तत्त द्व्यासेन लोकगुणितेन करोतु नाहम् ॥ १९ ॥ तालैस्त्रिभिः शिरसि साष्टियवेषुसंख्यैः कक्षान्तरे रहितविश्वयवैश्चतुर्भिः। कुक्षौ त्रिभिर्भवति नाभितलायुक्तै हस्तथा कटितटेऽर्धयुतान्धिसंख्यैः ॥ २० ॥ जङ्घोरुबाहुयुगमध्यकराङ्गुलीषु ___ कार्या करीन्द्रकरवत् परिवृत्तता च । कूर्माभता प्रपदयोर्जलजाभता च कण्ठे कपोलतलयोर्मुकुराभता च ॥ २१ ॥ यद्यदत्र तु न कथ्यते मया तत्तदङ्गमखिलं तु युक्तितः। उत्तमाख्यनवताललक्षणप्रोक्तमार्गमनुसृत्य कारयेत् ॥२२॥ इति शिल्परते उत्तरभागे मध्यमनवताललक्षणं नाम नवमोऽध्यायः ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy