SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ शिल्परले उत्तरभाग हेमसूध्यष्टलाभ्यां तु छित्त्वोद्धृत्याङ्कयेत् ततः। अन्तर्बहिश्चारमूलप्रदेशे पुनरानयेत् ॥ २७ ॥ स्त्रीशिलाकल्पिते लिङ्गे राष्ट्र राजा च नश्यति । पुंशिलाकल्पिते पीठे लिङ्गे पीठे च षण्डके ॥ २८ ॥ स्त्रिया पुंसा च भूपीठे कृते स्याद् राष्ट्रनाशनम् । एवं विज्ञाय तद्योग्यामानयेदम्बरावृतम् ॥ २९ ॥ एवं कृत्वा समारोप्य रथं नीत्वा शिवालयम् । कौबेयां दिशि संस्थाप्य लिङ्गं सम्यक् प्रकल्पयेत् ॥ ३०॥ अथ रत्नानि । स्फटिकं पद्मरागं च वज्रं नीलं हिरण्मयम् । वैडूर्य विद्रुमं पुष्यं रत्नबिम्बं तथाष्टधा ॥ ३१ ॥ स्फटिकं सूर्यकान्तं च चन्द्रकान्तामिति त्रिधा । स्फटिकस्यैव भेदाः स्युः काममोक्षार्थदाः क्रमात् ॥ ३२॥ श्रियं कामं तथारोग्यमृद्धिं पुत्रं जयं सुखम् । लभते पद्मरागादिबिम्बानां क्रमशोऽर्चनात् ॥ ३३ ॥ माणिक्यं च दिवाकरस्य शशिनो मुक्ताफलं विद्रुमं भौमस्येन्दुसुतस्य वै मरतकं तत् पुष्यरागं गुरोः । वजं दैत्यगुरोर्दिवाकरभुवो नीलं च गोमेदकं राहोर्यद् ग्रहरत्नकं शृणु सखे ! केतोश्च वैडूर्यकम् ॥३४॥ रत्नानामिह सर्वेषां दोषाः सामान्यतो नव । रेखा बिन्दुः कलङ्कश्च काकाधिक्षतधूलयः ॥ ३५॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy