SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ शिल्परले शिरोन्मानं तु सप्तांशमथवा नवभाजिते । गुल्फमानं चतुर्भागं तत्र पचाशकं शिरः ॥ ७२ ॥ उत्सेधशेषं परिधेर्द्वारतारमुदाहृतम् । उत्सेधे नवसम्भक्ते पञ्चांशं वात्र विस्तृतम् ॥ ७३ ॥ २१८ अथवा गुणतारं वा कुर्याद् द्वारं यथोचितम् । कुर्यात् प्राङ्कणतो गमागमकृते द्वारं महत् पादुके हस्तैर्वाङ्गुलकैः प्रकल्पितशुभायाद्यग्ररूढोत्तरम् । [उत्तरभागः स्वायामप्रतिभक्तरुद्रदशनन्देभांशविष्कम्भतत्खण्डोत्पन्नघनाङ्घ्रियुग्मविलसन्मङ्गल्यपट्ट्यादिकम् ||७४|| आग्न्येय्यामणद्वारं दक्षिणाशामुखं स्मृतम् ॥ ७५ ॥ प्रत्यङ्मुखं तु नैर्ऋत्यां वायव्यां तदुदङ्मुखम् । ईशे तु प्राङ्मुखं कुर्यात् तानि स्युः पादुकोपरि ॥ ७६ ॥ अथान्यथा चतुःशालविधानमाह -- चतुःशालं त्रिशालं च द्विशालं चैकशालकम् । वक्ष्यामि भवनं राज्ञां नामलक्षणसंयुतम् ॥ ७७ ॥ अलिन्दगैश्चतुर्द्वारैश्रतुःशालमुदाहृतम् । सर्वतोभद्रनामेदं नृपाणां शस्यते गृहम् ॥ ७८ ॥ नन्द्यावर्तमिति ख्यातं पश्चिमद्वारवर्जितम् । वर्धमानं तथा ख्यातं दक्षिणद्वारवर्जितम् ॥ ७९ ॥ स्वस्तिकं तद् भवेन्नाम्ना पूर्वद्वारविवर्जितम् । उत्तरद्वारहीनं वेद् रुचकं तद् भवेद् गृहम् ॥ ८० ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy